SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Jain Education 227 पितामहं तथा प्रेक्ष्य, पाण्डवानां दृशस्तदा । आसन्नानन्दशोकाभ्यां शीतलोष्णजलाविलाः ॥ १४ ॥ किरीटं पादुके छत्रं, कृपाणं चामराणि च । दूरादुर्वीपतिर्मुञ्चन् पञ्चधाऽभिगमं व्यधात् ॥ १५ ॥ अष्टमीन्दुनिमे कुर्व-ल्ललाटे करकुब्ङ्मलम् । ययौ नैवेधिकी पूर्व - मुर्वी शस्तदवग्रहम् ॥ १६ ॥ तत्र कृत्वोत्तरासङ्गं, निःसङ्गैकशिरोमणेः । स त्रिः प्रदक्षिणीकृत्य, पादयोरतन्मुनेः ॥ १७ ॥ प्रत्येकं तस्य वात्सल्यं, स्मरन्तस्तत्तदद्भुतम् । नप्तारोऽन्येऽपि चत्वार-चरणौ मूर्द्धनि न्यधुः ॥ १८ ॥ तेजस्रमश्रुधाराभिः क्रमावस्त्रपयन्मुनेः । भेजिरे विरजीभावं भक्तिप्रह्वाः स्वयं पुनः ॥ १९ ॥ धर्मलाभमयीस्तेषा - माशिषोऽदान्मुनिः शनैः । तेऽप्युपेत्य प्रमोदेन, न्यषीदंस्तन्मुखाग्रतः ||२०|| मुनिराकृष्य नासाग्रा - तेषु चिक्षेप चक्षुषी । " महान्तो हि परार्थाय, स्वार्थेषु शिथिलादराः " ॥ २१ ॥ आजन्मचापसंपर्क - कर्कशं मुनिपुंगवः । पाणिं व्यापारयामास तेषां पृष्ठे पुनः पुनः ॥ २२ ॥ सुधासब्रह्मचारिण्या, गाङ्गायनिमुनेर्दृशा । सिक्तस्त्यक्तमनस्तापः, पार्थिवस्तं व्यजिज्ञपत् ॥ २३ ॥ प्रभो ! प्रभूतसंभूतपापपङ्केन पङ्किलः । निर्मलोऽस्तु ममाऽऽत्माऽयं, त्वदुपास्तिसुधाम्बुधौ ||२४|| विवेकाऽऽख्यं निधिं तात !, तृष्णाऽमुष्णान्ममाखिलम् । राज्याय बान्धवध्वंस-मकार्ष कथमन्यथा १ ।। २५ ।। ज्ञातिसंज्ञापनोपज्ञ - कल्मषैकमलीमसाः । व्यांकोशकोशहस्त्यश्व-बन्धुरा अपि धिक् श्रियः ॥ २६ ॥ इन्दु-कुन्दद्युतिं कीर्ति, धर्म च द्वयमप्यदः । दुःखाकृत्योदयन्ते याः, संपदस्ता न संपदः ॥ २७ ॥ अहह ! ज्येष्ठयोः पित्रो- र्गान्धारी- धृतराष्ट्रयोः । अदायि यन्मया दुःखं तत्तु वाचामगोचरः ॥ २८ ॥ १ संज्ञापनं-मारणम् । २ व्याकोशं प्रफुल्लम । For Personal & Private Use Only library.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy