________________
२२5
तेऽपि चित्राङ्गदादयः । प्रीतैः पाण्डुसुतैः सर्वे, विमुज्यन्ते स खेचराः ॥ ३२५ ॥ कौन्तेयोऽथ पुरे सर्व-व्यसनानि न्यवारयत् । “एकस्याप्यपराधे हि, ज्ञातिरुच्छिद्यते ध्रुवम्" ॥ ३२६ ॥ अमारिपटहैश्चापि, धर्ममुन्निद्रमादधे । “कृपा हि सर्वजीवेषु, परं धर्मस्य जीवितम्" ॥ ३२७ ॥ स भोजनाय दीनाना-मनादीनवमानसः । नानाभोज्यविचित्राणि, सत्रागाराण्यकारयत् ॥ ३२८ ॥ यात्रां स सूत्रयामास, समस्तजिनवेश्मसु । "सर्बद्वारमुदारा हि. यतन्ते सुकृताजने" ॥ ३२९ ।। तत्रस्थ एव नाशिक्ये, स श्रीचन्द्रप्रभप्रभोः । अचीकरत् सदाचार-पूतः पूजामहोत्सवम् ॥ ३३० ॥ इति सुचरितैस्तैस्तैः सिक्त्वा सुधा इव बान्धवैः,
परमुपचयं पाण्डोः सूनुर्निनाय नयद्रुमम् । सच निरुपमानन्दस्यन्दि क्षणात् सुषुवेतमा
मम्खिलनपतिश्लाघ्यं पुण्यं यशश्च फलद्वयम् ॥ ३३१ ॥ इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये जरासन्धवधवर्णनो
नाम चतुर्दशः सर्गः ॥ १४ ॥
१ न आदीनवो-दोषो यस्मिस्तदनादीनवम् ।
Jain Educon
ational
For Personal & Private Use Only
www.jainelibrary.org