________________
-
पाण्डव- रित्रम् ॥ गः१४॥ ॥२७॥
कृष्णस्य हस्तिनापुरे | प्रवेशः। युधिष्ठिरस्य राज्याभिपेकः॥
224 वृन्देन, पौरपण्याङ्गनागणः । संगीतं मूत्रयामास, तूर्यत्रिकविचक्षणः ॥ ३१० ॥ जाते स्वामिन्यजातारी, प्रजाः पूर्णोपयाचिताः। पुरमुजागरं चकु-देवेभ्यस्तूर्यजागरैः ।। ३११ ॥ वीक्ष्य धर्मात्मजे गाई, नागराननुरागिणः। अश्लाघत पृथां ता-पुत्रप्रसविनीं हरिः ॥ ३१२ ॥ व्यधत्त धर्ममूर्नित्यं, कुन्त्याः पाण्डोश्च यादृशीम् । वितेने तादृशी भक्तिं, गान्धारी-धृतराष्ट्रयोः ॥३१३ ॥ पञ्चमूर्तिकमात्मानं, स पश्यन्नतिवत्सलः । चक्रेऽर्धचक्रिणोऽध्यक्ष, बन्धून् सर्वाधिकारिणः ॥ ३१४ ॥
आपृच्छमानमन्ये-गमनाय जनार्दनम् । सभायामञ्जलिं बद्धा, धर्मजन्मा व्यजिज्ञपत् ॥ ३१५ ॥ दामोदर ! का तवैवेद-मनुभावविजृम्भितम् । भूयोऽभूवन् यदेता मे, हस्तिनापुरसंपदः ।। ३१६ ।। स्मरस्येतद्विराटेषु, गूढवासकदर्थितान् ।
आदरावारकां नीत्वा, तथाऽस्मान् सत्करिष्यसि ॥ ३१७ ॥ किं चास्मिश्चण्डशौण्डीरे, किं जयेयं रणाजिरे ? । सुमेधाः सहयोद्धा चे-न त्वमेकमना भवेः॥ ३१८ ॥ राज्यलक्ष्मीस्तवैवेय-मिमे प्राणास्तवैव च । किमन्यदस्ति ? येन त्वां, विष्णो! सत्कुर्महे वयम् ॥ ३१९ । तथापि पृथुचित्तेन, निनिमित्तोपकारिणा । पदातिलवसंख्याया-मयं चिन्त्यो जनस्त्वया ॥३२०॥ इति विज्ञेन विज्ञाप्य, विष्णवे पाण्डुजन्मना । स्वर्ण-रत्न-गजा-श्वादि-सर्वस्वमुपदीकृतम् ॥ ३२१ ॥ त्वयेदानीं ममेवेदं, सर्व वस्तु समर्पितम् । निर्बन्धं तदलं कृत्वा, विजयेथाश्चिरं भुवि ।। ३२२ ॥ ___ इति संबोध्य कौन्तेयं, तेनार्चितपरिच्छदः । वैकुण्ठोऽचलदुत्कण्ठा-वती द्वारवतीं प्रति ।। ३२३ ॥ (युग्मम् ) धर्मजस्तमनुव्रज्य, पुरं कृच्छ्रान्यवर्तत । पृथासूनुकथानिष्णः, कृष्णोऽपि स्वपुरीं ययौ ॥ ३२४ ॥ समभ्यय यथौचित्यं,
6
॥२७॥
Jan Education intematon
For Personal Private Use Only
Sainelibrary.org