________________
217
ततो मनसि मन्वाना, जातं विश्वमकेशवम् । यादवाः समजायन्त, सवाष्पश्यामलाऽऽननाः ॥ २०३ ॥ जरासन्धपताकिन्यां, किंचित्सानन्दचेतसि । अहो ! किमद्य भावीति, सोत्प्रेक्षे प्रेक्षके जने ॥ २०४ ॥ समुद्रविजयादीनां दीनान्तःकरणस्पृशाम् । पश्यतामेव तुम्बेन, जवादाहत्य वक्षसि ।। २०५ ॥ उपसर्गेऽपि तादृक्षे, निःक्षोभमनसो हरेः । अन्तेवासीव पादान्तं तच्चक्रं समशिश्रियत् ।। २०६ ।। (त्रिभिर्विशेषकम् )
सानन्दे यादवानी, प्रत्यनीके विषादिनि । हेलयैव हरिः किंचि - नीचैर्भूय तदाददे || २०७|| दम्भोलिनेव जम्भारिः, प्रभामण्डलशालिना । पाणिप्रणयिना तेन, केशवः शुशुभेतमाम् ॥ २०८ ॥ अम्भोजभित्र तच्चक्र - मुपादाय प्रतोलयन् । निगर्वः कंसविध्वंसी, मगधाधिपमभ्यधात् || २०९ || भो ! भूपालशिरोरत्न !, न यत्नः संयुगाय ते। सांप्रतं सांप्रतं येन, दैवं नैवानुकूलिकम् || २१० ॥ आत्मीयमप्यनात्मीयं, शस्त्रं स्यात् कथमन्यथा । तद्गच्छ मागधान् स्वेच्छं विलसख ममाज्ञया ॥ २१९ ॥ नष्टं न किंचिदद्यापि, मेदिनीश ! विमृश्यताम् । श्रुतं किं न त्वया ? जीव-नरो भद्राणि पश्यति ।। २१२ ॥ इत्युक्तः सोऽपि साटोपं, कैटभारिमभाषत । अरे ! गोपाल ! वाचालः, सुतरामसि संप्रति ॥ २१३ ॥ संप्राप्तेनामुना मन्ये, लोहखण्डेन माद्यसि । “अमेयः सारमेयस्य, गर्वोऽस्थिशकलादपि " ॥ २१४ ॥ इति संतक्ष्य तीक्ष्णेन वचसा सहसा हरिम् । स शरैस्ताडयामास, व्योमेवाब्दैस्तपात्यये ॥ २१५ ॥ स्वचक्रेणैव नेतव्याः, प्राणान्तं प्रतिविष्णवः । इत्यागमरहस्यानि, नान्यधेति विचिन्तयन् ॥ २१६ ॥ शीर्षच्छेद्यस्य तस्याशु, शिरश्छेदाय केशवः । प्रसृत्वरप्रभाचक्रं चक्रं चिक्षेप लीलया ॥ २१७॥ ( युग्मम् ) तेन ज्वालाजटालेन, सकिरीटं सकुण्डलम् । एत्य प्रसभमम्भोज-च्छेदमच्छेदि
1
For Personal & Private Use Only
Jain Education Interfational
www.jainelibrary.org