________________
तुमारेमे, शरभः सिंहकैरिव ॥ १७१ ॥ सावहेलमुदस्तेन, हलेन मुसलेन च । अमृन्मशकनिष्पेष, निष्पिपेषाग्रजो हरेः ॥१७२ ॥ तद्वधोच्छलितक्रोध-प्रबोधो मगधेश्वरः । निर्दयो गदया राम, ताडयामास वक्षसि ॥ १७३ ॥ तत्प्रहारव्यथादौस्थ्या-दसक्कल्लोलमाकुलः । भृशं ववाम रामोऽपि, हाहारावं च वाहिनी ॥१७४॥ प्रजिहीषु पुना रामे, निस्त्रिंशं मागधं नृपम् । चण्डगाण्डीवपाण्डित्यात् , खलयामास फाल्गुनः ॥ १७५ ॥ अर्जुनस्य शितैर्वाणै- धितो मागधस्तदा । तदेकोपज्ञमज्ञासीत् , कौरवाऽऽरामसंक्षयम् ।। १७६ ॥ गदाप्रहारवैधुर्य, पश्यन् रामस्य केशवः । सर्वांस्तानन्तयांचक्रे, तनूजान्मगधेशितुः॥ १७७ ॥
तनिशुम्भनसंभृत-प्रभृताक्षेपदुःसहम् । माधवं मगधाधीशः, समेत्य सविधेऽभ्यधात् ।। १७८ ॥ रे गोपाल! ध्रुवं कालः, कृतक्रोधोदयोऽधुना । आकर्षति जरासन्धः, कंसमुख्यांस्तवोदरात् ।। १७९ ॥ समादत्स्व किमप्यस्व-मात्मत्राणेककारणम् । अनायुधमसंनाहं, नाहमाहन्मि जातुचित् ॥ १८०॥ दृष्टभर्तृवधा दृष्ट्वा, वधं तद्वधकस्य ते । सुता जीवयशा मेऽस्तु, प्रतिज्ञापारदृश्वरी॥१८१॥ विब्रुवन्तमिति क्रोधा-द्विरोधिनमनेकधा । मनागप्यकृतक्षोभ-स्तं जगाद जनार्दनः॥१८२॥ राजन् ! यदात्थ तत्तथ्य, सत्यैव दुहितुस्तव । प्रतिज्ञा भविता किं तु, ज्वलद्वहिप्रवेशनात् ॥ १८३ ॥ इति तं व्याहरनेव, प्रेरितः शकुनैः शुभैः। हरिः सरभसोऽभ्येत्य, प्रतिजग्राह मार्गणैः ॥ १८४ ॥ जरासन्धो धनुर्दण्डा-दथ प्रसृमरैः शरैः । | भयं यदूनां विदधे, पिदधे चार्कमण्डलम् ॥ १८५ ॥ चित्रांस्तान् पत्रिणः शत्रो-भ्रानिव मनोरथान् । निरुद्धरोदसीरन्ध्रान्,
१ अष्टापदः । २ निशुम्भनं-वधः । ३ 'क्रोधः' इति प्रतिद्वय । ४ 'जरासन्धधनु' प्रतित्रयः ।
in Edu
n
g
For Personal Private Use Only
www.ebay.org