________________
213
अस्य दक्षिणपक्षस्थोऽरिष्ट वर्णैस्तुरङ्गमैः । रामस्तालध्वजः सोऽयं, हिमवानिव जङ्गमः ॥ १४० ॥ नीलाश्वेन रथेनैष, पाण्डुसूनुर्युधिष्ठिरः । धनंजयः पुनरयं रथेन श्वेतवाजिना ॥ १४१ ॥ नीलोत्पलदलाभाश्व - रथस्त्वेष वृकोदरः । कृष्णाश्वेन रथेनाय-मनावृष्टिर्गजध्वजः ।। १४२ ।। अयं च शबलैर-रक्रूरः कदलीध्वजः । महानेमिकुमारोऽयं, कुमुदा भैस्तुरङ्गमैः ॥ १४३ ॥ उग्रसेनः पुनरयं, शुकतुण्डप्र भैर्हयैः । एष तित्तिरकल्मापैः सात्यकिस्तु तुरङ्गमैः ॥ १४४ ॥ जराकुमारः कनक - पृष्ठाश्वोऽयं मृगध्वजः । मेरुः कपिलरक्ताश्वः, शिशुमारध्वजस्त्वसौ ॥ १४५ ॥ काम्बोजैर्वाजिभिश्वायं, सिंहलः श्लक्ष्णरोमसूः । पद्माभैर्वाजिभिश्चैव, राजा पद्मरथः पुरः || १४६ || पञ्चपुण्ड्रैर्हयैरेष, कुम्भकेतुर्विदूरथः । पारापतप्रभाश्वोऽयं, सारणः पुष्करध्वजः ॥ १४७ ॥ बहवो यदवोऽन्येऽपि, नानारथहयध्वजाः । सन्त्येते न तु शक्यन्ते, सर्वेऽप्याख्यातुमाख्यया ॥ १४८ ॥
तदाकर्ण्य जरासन्धः, प्रवृद्धोत्साहसाहसः । मन्यमानस्तृणायैता-नमृद्नाद्यादवीं चमूम् ॥ १४९ ॥ बभार भारतार्धेशक्लेशितं यादवं बलम् । मत्तमातङ्गनिलून - नलिनीवनविभ्रमम् ॥ १५० ॥ हतस्तम्बेरमस्तोम - मस्तंनीततुरङ्गमम् । भग्नस्यन्दनसंदोह - दुरासदपदक्रमम् ॥ १५१ ॥ प्रहार प्रोषितप्राण- सुभटस्थ पुटक्षिति । नव्यनिर्यदसृक्कुल्या-सिक्तमागधसंमदम् ॥ १५२ ॥ पराजयनितान्तार्त - कुशार्तवसुधाधिपम् ॥ मानमर्दनसंपन्न - समरावेशकेशवम् ॥ १५३ ॥ नृत्यत्कबन्धनिध्यान- तद्ध्यानत्रिदशाङ्गनम् । अरिष्टनेमिरैक्षिष्ट, स्वसैन्यं सान्द्रया दृशा ।। १५४ ॥ ( चतुर्भिः कलापकम् )
१ स्थपुटं - विषमम् । २ निध्यानं - दर्शनम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org