SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 21 समाख्यात-बाहुपौरुषसंपदः । प्रीतेनाभिसभं राज्ञा, समालिङ्गयन्त पाण्डवाः ॥ ११० ॥ हते हिरण्यनाभेऽथ, प्रभ्रश्यद्धैर्यवैभवः । शुशोच मगधाधीशः, सहायाः खलु दुर्लभाः॥ १११ ॥ ततः प्रातः पुनः प्राप्त-धीरिमा मगधेश्वरः। शिशुपालमहीपालं, सेनानीत्वेऽभ्यषिश्चत ॥ ११२ ।। स्वयमेवात्तसंनाहः, संयुगोत्साहदुःसहः । उढशस्त्रमारूढः, स्यन्दनं साम्परायिकम् ॥ ११३ ॥ अद्य स्यादजरासन्ध-मकृष्णं वा महीतलम् । इत्थं संधाऽनुसंधान-ग्रहिलीकृतमानसः ॥ ११४ ॥ कीनाशाऽऽवाससंवास-प्रतिभूमिः पदे पदे । यमदुतैरिवोल्लण्ठैदुनिमित्तैरुरीकृतः ॥ ११५॥ व रे कृष्णः ? क्व रे कृष्ण ?, इत्युच्चैाहरन्मुहुः । उद्धृतो मगधस्वामी, वेगात संयुगमाययौ ॥ ११६ ॥ (चतुर्भिः कलापकम् ) विरचय्य पुनश्चक्र-व्यूहमव्याहतोर्जितः । बभञ्ज यादवोद्यानं, मदान्धश्चेदिपद्विपः ॥ ११७ ।। ततो यादवसेनानी-म॒न्द-श्चेदिपतेश्चमूम् । विदधद्धनुराकृष्टि-मनाधृष्टिरधावत ॥ ११८ ॥ नृपा दश सहस्राणि, ये चेदिपसमीपगाः । रुरोध ताननाधृष्टिः , कुञ्जरानिव केसरी ॥ ११९ ॥ तद्वधव्यग्रमालोक्य, यदुराजचमूपतिम् । उत्तालः शिशुपालस्तु, तत्रागाद्यत्र केशवः॥ १२० ॥ अभ्यधाच तमित्युच्चैः, कृष्ण ! निष्णोऽसि संयुगे । तत् किंचिदायुधं धत्स्व, यत्ते त्राणाय जायते ॥ १२१ ॥ हसन्नुवाच गोविन्दो, माद्रीमातस्तवेदृशीः । दुःसहा अपि सोढास्मि, कामं वाग्विषविपुषः ॥ १२२ ॥ अपराधशतेनापि, न क्रोधं देवि! ते सुते । कर्तास्मीति मया यसात् , प्रतिपनं पितृष्वसुः । ॥ १२३ ॥ परम्शतापराधं त्वा-मिदानीं तु समापयन् । मनागपि भविष्यामि, नोपालभ्यः पितृष्वसुः॥ १२४ ॥ इति १ माद्री माता यस्य तत्संबोधनम् । Jain EducAMIL For Personal & Private Use Only O nelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy