SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पाण्डव वित्रम् ॥ शेषास्तु मुषितोत्साहाः, प्रापिताः प्राणसंशयम् । हिरण्यनाभं शरणं, सेनान्यं समुपाययुः ॥९५॥ तानवस्थाप्य दुर्वार-शौण्डीर्यः स्थैर्यमन्दरः । सोऽथ यादवयादांसि, ममर्द समराम्युधौ ॥ ९६ ॥ यदुसेनापरिवरैः, सोढः प्रौढबलैरपि । १४॥ न तस समरारम्भः, सिंहस्येव मतङ्गजैः ॥ ९७ ॥ केचि-न्नेमिजिनाधीशं, केऽप्यनाधृष्टिमन्जसा । हिरण्यनाभतो भीताः, शरणाय रणाद्ययुः ॥ ९८ ॥ यादवेन्द्रचमूं वीक्ष्य, प्रतिपक्षभयाकुलाम् । हिरण्यनाभमभ्येत्य, धीरं भीमोऽभ्यधाद्वचः २६३॥ ॥ ९९ ॥ जरासन्धचमूनाथ !, किं मनासि पृथा बलम् ? । मामेहि येन दोर्दण्ड-कण्डूमपनयामि ते ॥ १०० ॥ इत्याहूतः स भीमेन, मैनाक इव वेगतः । प्राविशत् पक्षरक्षार्थी, वेगात् संगरसागरम् ॥१.१॥ प्रावर्तत तयोः पूर्व, महाबाहोः शरा. शरि । निष्ठितायुधयोरासी-मुष्टामुष्टि ततः परम् ॥ १०२॥ जरासन्धस्य सेनान्यं, भीमस्तामनयद्दशाम् । लम्भितौ हरिपारामाभ्यां, यां प्राक् चाणूर-मौष्टिको ॥ १०३ ॥ पुरा दुःशासनेनापि, न ह्यसह्यन्त हन्त याः । कथं हिरण्यनाभोर्ण नाभो मुष्टीः सहेत ताः ॥ १०४ ॥ मागधक्षमापतेस्तस्मिन् , पतिते पृतनापतौ। अनीककाननं दग्धं, यादवैस्तद्दवैरिव | ॥१०५॥ यादवध्वजिनीशानां, खदोर्दर्पस्पृशामपि । पौरुषोत्कर्पसानन्दाः, पेतुर्भीमे दृशस्तदा ।। १०६॥ किमस्ति क्वचिदन्योऽपि, कोऽपि भीमोपमो भटः । इतीवालोकितुं भानुः, प्रापवीपान्तरं तदा ॥१०७।। विहाय समरारम्भ-मुभयोरप्यनीकयोः । स्वाम्यादेशेन भूपालाः, प्रदोषे शिबिरं ययुः ॥ १०८ ॥ एकच्छत्रं मुदामासीत् , स्कन्धावारे मुरद्विषः । जरासन्धस्य तु शुचा-महो विलसितं विधेः॥१०९ ॥ अनाधृष्टि१ यदुसेनाप्रभुभिः । N२६३॥ For Personal Private Use Only Sinelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy