________________
Jain Educatio
209
पुरतः प्रभोः । निर्निमेषडशस्तस्थु-रालेख्यलिखिता इव ॥ ८० ॥
हिरण्यनाभमुख्यानां पेष्टुं विद्विष्टभूभुजाम् । अनाधृष्टिरधाविष्ट, करिणामित्र केसरी ॥ ८१ ॥ तदा युयुधिरे तेऽपि, सर्वे सर्वात्मना तथा । भाले रामानुजस्थापि, स्वेदः प्रादुरभूद्यथा ॥ ८२ ॥ अश्वीयसंकटे तस्मिन्, मिं हिरोऽपि महाहवे । शरप्रहारभीत्येव, पांशुवर्मावृतोऽभवत् ।। ८३ ।। छिनप्रोच्छलितैर्दूरं, चामीकरमयैर्ध्वजैः । अजायत तदानीं द्यौ - रुल्काभिरिव संकुला ॥ ८४ ॥ रुधिरासवसौहित्य-मार्गणाः पार्थमार्गणाः । कृपणे रिपुभिर्नष्टैर्न नीताः कृतकृत्यताम् ।। ८५ ।। पार्थस्य खुरलीमात्र -मभवत् कौरवाहवः । बाह्वोरिष्टमपूरिष्ट, जरासन्धरणः पुनः ॥ ८६ ।। संधाना कृष्टि विच्छेद - विषये तस्य लाघवम् । दृष्ट्वा सुमनसो व्योम्नि, सत्यं सुमनसोऽभवन् ॥ ८७ ॥ असह्यस्तावदेकोऽपि, रिपुभिः कपिकेतनः । पौरुपोष्मलदोर्दण्डैः, किं पुनर्बन्धुभिर्युतः १ ॥ ८८ ॥ गदया दलयामास, भीमः प्रत्यर्थिपार्थिवान् । पक्षोभिद्रवलानिन्द्रः, पविना पर्वतानिव ॥ ८९ ॥ अथोत्थिते रणव्योम - घुमणौ धर्मनन्दने । परैर्ध्वान्तायितं कैश्चित् कैश्वित्तारागणायितम् ॥ ९० ॥ जरासन्धस्य राजन्या - अन्ये हिंसनहीनिव । प्रशस्यदर्शनचक्रे, नकुलः स्वकुलोचितम् ॥ ९१ ॥ दिदेव सहदेवोऽपि, संग्रामफलके तदा । रुन्धन् शरानिवारातीन् वश्यैरसैरिवेषुभिः ॥ ९२ ॥ इत्थं पाण्डुसुतैश्चण्ड - भुजदण्डपराक्रमैः । लम्मिताः शत्रवः केचिदाशु कीनाशदासताम् ॥ ९३ ।। केचिच्च निशितैर्बाणै र्गमिता दक्षिणेर्मताम् । अवनीशयनीयेषु, शोणितार्द्रेषु शायिताः ।। ९४ ।। ( युग्मम् )
१ अनाधृष्टेः । २ सूर्यः । ३ खुरली - धनुर्विद्याऽभ्यासः । ४ देवाः । ५ संतुष्टाः । ६ 'शारीः ' इति स्यात् ।
For Personal & Private Use Only
onal
www.inelibrary.org