________________
२०४
पीपाण्डव
परित्रम् ॥ वर्गः१४॥
कृष्णजरासन्धसैन्ययोर्युद्धारम्भः ॥
॥२६२॥
परिपीतार्क-व्यूयोरुभयोरपि । शरैः प्रसृमरैर्विश्व-मेकच्छत्रमजायत ।। ६५॥ मगधेश्वरशौण्डीरे-गोविन्दस्याग्रसैनिकाः। ऊर्जस्विभिरभज्यन्त, गजैः प्रतिगजा इव ।। ६६ ॥ ते पलाय्य स्फुरल्लज्जाः, केशवं शरणं ययुः । तान् सोऽप्याश्वासयामास, त्रिपंताकेन पाणिना ॥ ६७ ॥
अथोच्चै रोहिणीसूनु-निजगाद गदाग्रजम् । इतरैरेप दुर्भेद-श्चक्रव्यूहश्चिरादपि ॥ ६८ ॥ ततो दक्षिणतो नेमिमतः कपिकेतनः । मुखे पुनरनाधृष्टि-भिन्दन्त्वेनं महौजसः ॥ ६९ ॥ एवमुक्तेन कृष्णेन, न्ययुज्यन्त त्रयोऽपि ते । प्रावर्तन्त तथा कर्तु-मेतेऽपि तपनद्युतः ।। ७० ।। अरसन्धिषु नेमौ च, सर्व निर्जित्य राजकम् । चक्रव्यूह द्विधा चक्रुः, समं तेऽरिमनोरथैः ।। ७१॥ तेषामनुपदं तत्र, सैन्यानि विविशुः क्षणात् । पृष्ठतो यथनाथानां, यथानीव बनान्तरे ।। ७२ ॥ ऊर्जस्खलभुजौर्जित्यै-स्तैर्मागधमहीपतेः । बलं विलोडयांचक्रे, गजैरिव महासरः ॥ ७३ ।
समं नेमिजिनेन्द्रेण, गजेन्द्रेणेव कुक्कुरः । कुरङ्ग इव सिंहेन, रुक्मी योद्धमढौकत ॥ ७४ ॥ विक्रमोपक्रमस्तस्य, जिने विफलतां ययौ । खद्योतस्येव मार्तण्ड-मण्डले द्युतिडम्बरः ।।७५॥ गुरुः कोदण्डटंकारः, सलील नेमिनिर्मितः। रुक्मिणः कर्णमभ्येत्य, पलायनमुपादिशत् ।। ७६ ॥ अपरेऽपि परोलक्षाः, क्षोणिपाला बलोद्धताः । सममेवोदतिष्ठन्त, जिनं योधयितुं मदात् ॥ ७७ ।। अविधित्सुर्वधं तेषां, देवः कारुण्यसागरः । दिव्यमापूरयामास, शङ्ख विख्यातविक्रमः ॥ ७८ ॥ तेन शङ्खनिनादेन, कर्णजाहोपगृहिना । द्विषां पाणितलात् पेतु-रायुधान्यखिलान्यपि ॥ ७९ ॥ ते समुज्झितशौण्डीर्य-व्यापाराः
१ सरलाकुलित्रयेण । २ चक्रव्यूहम् । ३ सूर्यसदृशतेजसः । ४ कर्णमूलप्राप्लेन ।
२६२॥
JainEduce
For Personal & Private Use Only
Lainelibrary.org