________________
202
॥५०॥ तद्देव ! बसुदेवस्तान् , प्रेष्यतां रोद्धमुद्धतान् । पक्षच्छेदो विपक्षस्य, नीतेरुपनिषत् परा ॥ ५१ ॥ धृत्वा विज्ञापनामेनां, हृदि यादववासवः । वैताढये विक्रमेणाढथं, प्रेषीदानकदुन्दुभिम् ॥ ५२ ॥ सुतौ प्रद्युम्न-साम्बो च, समस्तास्तांश्च खेचरान् । प्रस्थितेन समं तेन, जयाय विससर्ज सः ॥ ५३॥ या नितान्तमरातीना-मायुधौषविघातिनी । मेरो जन्ममहे बाहौ, बद्धपूर्वा सुपर्वभिः ॥ ५४ ॥ सा भुजे वसुदेवस्य, प्रस्थितस्य महौषधी । अबध्यत स्वहस्तेन, हृष्टेनारिष्टनेमिना ।। ५५ ॥ (युग्मम् )
याते विजययात्रायां, वेगादानकदुन्दुभौ । महेन्द्रसारथिर्नेमि-मेत्य मातलिरब्रवीत् ॥ ५६ ॥ स्वामिन्नूचेहमाय, मघोना ननु मातले ! । बान्धवार्थेऽस्ति युद्धार्थी, नेमिाविंशतीर्थकृत् ॥ ५७ ॥ दिव्यशस्त्रौघसंपूर्ण, भगवैरिमनोरथम् । रथं सवज्रसंनाहं, गृहीत्वा त्वं व्रज द्रुतम् ॥ ५८ ॥ तदारोहत्विमं स्वामी, गुणमाणिक्यरोहणः । इति विज्ञापनां तस्य, कृतार्थीकृतवान् प्रभुः ॥ ५९॥
सभुजास्फोटसुभटौ, गर्जदूर्जस्विकुञ्जरौ । उद्धतौ यो मन्योन्यं, व्यूही तावथ चेलतुः ॥ ६० ॥ पीवरा हयहेषाभिरूर्जिता गजगर्जितैः । नमो बधिरयांचकु-श्चमृनिखाननिस्वनाः॥६१॥ रणत्तूर्यनिनादेन, द्विगुणोत्साहसंपदाम् । शूराणां वज्रसंनाह-संधयः शतधा ययुः॥ ६२॥ पाञ्चजन्यो मुकुन्देन, देवदत्तः किरीटिना । कीर्ति-वैतालिको शङ्खौ, दध्माते मधुरध्वनी ॥ ३॥ उभयव्यहवर्तिन्यो-रन्योन्यं स्पर्धमानयोः। संग्रामोऽअपताकिन्योः, प्रावर्तत भयंकरः ॥ ६४ ॥ सर्वतः
१ ब्रह्मविद्या । २ 'मेरुजन्म' प्रतिद्वय०, 'मेरोर्जन्म०' प्रत्यन्तर० ।
Main Educati
o
nal
For Personal & Private Use Only
प
Einelibrary.org