________________
श्रीषाण्डवत्रिम् ॥ वर्गः १४ ॥
॥२६०॥
204
वयोरयम् ।। ५ ।। विस्फुरच्छफरीनेत्रा, तत्रापि रणसाक्षिणी । अस्ति ज्योत्स्नासपत्नाम्बु-रियमेव सरस्वती ॥ ६ ॥ इत्युक्त्वा विरते दूते, सावज्ञं केशवोऽब्रवीत् । बुभुक्षितानामस्माक - मामन्त्रणमिदं वचः ॥ ७ ॥ जज्ञे नाद्यापि मद्वाहोः, सौहित्य कंस - कौरवैः । विधास्यति जरासन्धः पुनस्तदधुना ध्रुवम् ॥ ८ ॥ तत्रैते वयमायाता, एव सोऽप्येतु सत्वरम् । एवमाख्याय तं दूतं, विससर्ज जनार्दनः ॥ ९ ॥ दूतोऽप्येत्य जरासन्धं, धराधीशं न्यजिज्ञपत् । सर्वो देव ! तवादेशः, केशवाब. निवेदितः ॥ १० ॥
aaisa (प) भूपालः, किंचित् सोमक ! पृच्छयसे । ब्रूहि गोपः स किंरूप: १, किंबल ? किंनयोऽपि वा ? ॥ ११ ॥ वक्तुं प्रचक्रमे सोऽथ, यथादृष्टं निगद्यते । विदध्यान्मयि देवश्वे - नाप्रसादस्पृशो दृशः ॥ १२ ॥ वपुष्मदिव शोण्डीर्य-मुत्साहो देहवानिव । संगताङ्ग इवानङ्गः, स गोपो देव ! रूपतः ॥ १३ ॥ तद्दर्शनादरीणां च नारीणां च पदे पदे । आत्मविस्मारकः कोऽपि, वेपथुः प्रथतेतमाम् ॥ १४ ॥ न देवस्य समः कश्चित्, सेनया चतुरङ्गया । किं तु शूराः सगोत्राश्थ, सर्वेऽत्यल्पेऽपि aam || १५ || योsस्य बन्धुः कनिष्ठोऽस्ति, समुद्रविजयात्मजः । अरिष्टनेमिर्भगवान्, सोऽरिष्टं द्विष्टभूभुजाम् ।। १६ ।। किं ब्रूमो विक्रमं तस्य, स्वकीये लीलयैव यः | दोर्दण्डशिखरे धात्रीं, छत्रीकर्तुमपि क्षमः || १७ ॥ यस्तु ज्यायांस्तयोर्बन्धुर्बलदेव इति श्रुतः । अपूर्व: पूर्वनष्टानां वैरिणां शरणं रणे ।। १८ ।। ततो वैश्विरूथिन्या - मेतेऽतिरथयस्त्रयः । तदीयतनुजन्मानः, कोटिशस्तु महारथाः ।। १९ ।। कृतज्ञास्तनयाः पाण्डो - रुड्डामरतरौजसः । प्राणैरपि प्रियं कर्तुं समीहन्तेऽधुना १ ' व ' प्रतिद्वय० । २ तृप्तिः । ३ प्राप्तशरीरः । ४ ' अपूर्वपूर्व ० ' प्रतित्रय० ।
Jain Educatch temational
For Personal & Private Use Only
जरासन्ध
दूतेन
कृष्णस्य
युद्धनिमंत्रणं
कृतम् । तस्य च
वर्णनं जरा
सन्वसमीपे
कृतम् ॥
॥२६०॥
gainelibrary.org