________________
Jain Educatio
203
इत्थं क्रोधाद्विधाय प्रधनभुवि रिपुत्रातकल्पान्तमन्तः,
प्रीति तां तां वहन्तः पुनरवनिपरी भोगला भप्रसूताम् । तुष्टिं पुष्टामरिष्टद्विषति रचयितुं मागधक्षोणिभर्तुः,
संहारेणाथ तस्थुः किसलयित महस्ताण्डवाः पाण्डवेयाः ।। ११११ ।। इति मलधारि श्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये पाण्डव - कौरवयुद्धवर्णनो नाम त्रयोदशः सर्गः ॥ १३ ॥
अथ चतुर्दशः सर्गः ।
दुर्योधन वधक्रुद्ध-मगधे शनिदेशतः । दूतः समेत्य वाक्पूतः, कंसारातिमथाभ्यधात् ॥ १ ॥ समाप्य कौरवान् प्यः, कृष्ण ! मा स्म मनागपि । त्रिखण्डाखण्डलो याव-द्वियजी मगधेश्वरः || २ || प्रियं जामातरं कंसं सुहृदं सुयोधनम् । अत्युत्सुकोऽयमाक्रष्टुं, द्वावप्येतौ तवोदरात् ॥ ३ ॥ किं तु त्वां व्याहरत्येष, पिच्छिला शोणितोर्मिभिः । अनेकाक्षौहिणीरुण्डै-भूरियं स्थंपुटापि च ॥ ४ ॥ ततस्त्यक्त्वा कुरुक्षेत्रं, संपरायक्षमक्षमे । सनपट्टयाइये ग्रामे, संग्रामोऽस्त्व१ जरासन्धः । २ विषमापि अस्तीत्यर्थः ।
tional
For Personal & Private Use Only
www.jainvelibrary.org