SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ 201 व्यलीके प्राग्, नासंभाषं मयि व्यधाः । निर्व्यलीकामपीदानीं, मां न संभाषसे कथम् १ || १०८२ मदीयं यदि वा किंचिव्यलीकमपि मन्यसे । तदाविष्कुरु येन त्वां सद्यः प्रत्याययाम्यहम् || १०८३ ॥ चेत् प्रसन्नमना एव, वर्तसे यदि वा मयि । तन्निजैर्मां निषिञ्चस्व, विलोकनसुधारसैः || १०८४ ॥ मां विहाय पुरा नाथ !, नैव लीलावनेऽप्यगाः । किमद्य परलोकाय, प्रस्थितोऽसि मया विना १ ।। १०८५ ।। स्वामिन् ! विश्वस्य विश्वस्य नित्यमास्थाय नाथताम् । प्रयातास्म्यहमप्यद्य, त्वां विना नन्वनाथताम् || १०८६ ॥ ममाभूद्विमुक्तायाः, पूषाऽप्येष तमोमयः । जाताश्चैते दवप्रायाः, स्वामिन् प्राभातिका - निलाः || १०८७ ॥ पतत्रिण इव ध्वस्ते, कुलीयजगतीरुहे । किं विपन्ने त्वयीदानीं श्रयेयुरनुजीविनः ? ।। १०८८ ।। भानुमत्यामिति स्फारं, क्रन्दन्त्यां करुणैः स्वरैः । दुःशल्याऽप्यथ गान्धारी- धृतराष्ट्रतनूद्भवा ।। १०८९ ।। दुर्योधनस्वसा प्राण - प्रियं समरशायिनम् । आसाद्य सिन्धुभूपालं, रुदती पर्यदेवत । १०९० ॥ ( युग्मम् ) हाऽभिरामगुणग्राम - मरालकुलमानस !। हा ! सिन्धुवनितानेत्र - कैरवाकरचन्द्रमः ! ॥ १०९१ ॥ न नामास्ति ममानृण्यं, प्राणेश ! प्रणयेऽपि ते । मधोर्यत् पुनः प्राणान्, स्वानदास्तत्र किं बुवे ? ।। १०९२ ॥ हा ! ममास्तमिते तुल्यं, पितृ - श्वशुरयोः कुले । मण्डले दर्शयामिन्यां, सूर्याचन्द्रमसोरिव । १०९३ ॥ यैर्नाज्ञायि पुरा काचित् कथाऽपि परिपन्थिनाम् । त्वां विना ते महावीर !, किं भविष्यन्ति सिन्धवः १ ॥ १०९४ ॥ मित्रकृत्यमयप्राणे, स्वामिन्नस्तं गते त्वयि । स्वच्छन्दमद्य मोदन्तां, त्वन्मित्राणामरातयः ॥ १०९५ ।। इतोऽप्याप्य करं पत्यु - रङ्गुलीयोपलक्षितम् । इति भूरिश्रवः पत्न्य-स्तारं परिदिदे१ नीडवृक्षे । ४४ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy