SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ 199 न्तरङ्गिणि । समवस्थाप्य तत्रैव धृतराष्ट्रं कथंचन ।। १०५४ || पाण्डवेयाः स्वयं भक्त्या, दत्तहस्तावलम्बनाम् । उदश्रुनयनां निन्यु-र्गान्धारीं समराजिरम् || १०५५ ॥ ( युग्मम् ) देवरीभिः समं सर्व - राजन्यानां च यौर्वतैः । श्वश्रूमन्वचलद्भानु-मती दुर्योधनप्रिया ।। १०५६ || तामनेक महावीर - करङ्कनिकराङ्किताम् । वीक्ष्य युद्धक्षितिं तासां हृदयानि विदुः ॥ १०५७ ।। तासां युगपदाक्रन्द-प्रतिध्वनिभिरुद्भूतैः । क्रन्दन्त्य इव भान्ति स्म, दिशस्तच्छोकविक्लवाः ।। १०५८ ।। गदाप्रहारभग्नोरुं, परिच्छदनिवेदितम् । गान्धारी स्नुषया सार्धं, कौरवेश्वरमभ्यगात् ।। १०५९ ।। शोणितोक्षितसर्वाङ्गानन्या अपि मृगीदृशः । उपलक्ष्योपलक्ष्य स्वान् वल्लभानभिशिश्रियः ॥ १०६० ॥ पृथक् पृथक् परिभ्रष्टा-नस्राविलविलोचना | शरीरावयवान् पत्युः काऽपि कुच्छादमीलयन् ॥ १०६१ ॥ वक्षः पीटेऽन्तिमाश्लेष–सक्तैः स्वस्तनकुङ्कुमैः । काऽप्युपालक्षयत् पत्युः, कबन्धं न पुनः शिरः ।। १०६२ ॥ अन्त्यचुम्बनसंक्रान्तात्, कस्तूरीतिलकान्निजात् । प्रत्यभ्यजानात् कान्तस्य काऽप्यास्यं न पुनर्वपुः ॥ १०६३ ॥ काऽप्यन्त्यचुम्बनव्याजा - दभिज्ञानं प्रियानने । निजौष्ठयावकैः कुप्तं नापश्यद्रुधिरैस्तदा ॥ १०६४ || स्वकान्तवदने मौग्ध्या- दन्यस्याङ्गे नियोजिते । 'चिरं भर्तृविवादोऽभूत्, कस्याश्चित्तस्य कान्तया ।। १०६५ ॥ काऽपि सर्वाङ्गसंसक्ते, रक्तरव्यक्ततां गतम् । स्वप्राणेशभ्रमादन्यमप्यालिङ्गत् पुनः पुनः ।। १०६६ ।। मानात् काऽप्यन्तिमाश्लेषे, निराकृत्य प्रियं पुरा । मृतं तु सस्वजे स्वागः, शोचन्ती तत् पुनस्तमाम् ॥ १०६७ ॥ भर्तुरादाय मूर्द्धानं करे कायगवेषिणी । काऽपि क्षेत्रक्षितिं सर्वां, काली साक्षादिवाभ्रमत् १ - युवतिसमूहैः । २ करहूं -शीर्षम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy