SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Jain Educa 197 महावीरा !, हा! जनन्येकचेतसः । क्व नाम यूयं याताः स्थ, मन्दभाग्यां विमुच्य माम् १ ।। १०२४ ॥ इत्याद्यनेकधाबद्धपरिदेवनविक्लवाम् । सान्त्वयामास कंसारि - रिति द्रुपदनन्दिनीम् ।। १०२५ ।। कल्याणि ! वीरपत्नीनां, न खल्वेष विधिः कचित् । शोकेन परिभूयन्ते, ह्यल्पीयस्यः पुरंध्रयः || १०२६ ।। प्रणष्टैरात्मजैराजौ, लज्जन्ते वीरयोषितः । मोदन्ते तु श्रितैमृत्यु - मूव भूतैर्विजित्य वा ॥ १०२७ ॥ बान्धवौ तव तौ धन्यौ, धन्यास्ते च तनूद्भवाः । कुलैकतिलकैः प्राणान्, यैस्त्यजद्भिर्निजान् रणे ।। १०२८ ।। दीयते स्म चिरं तुभ्य - मवैधव्यमखण्डितम् । चक्रे च कीर्तिरात्मीया, लोकालोकावलोकिनी ।। १०२९ ॥ ( युग्मम् ) रक्षिता अपि हि प्राणा, यास्यन्त्येव कदाऽप्यमी । ते तु कस्मिंश्चिदप्यर्थे, यान्ति चेत्तत् फलं महत् ॥ १०३० ।। बान्धवा अपि हन्यन्तां, म्रियन्तां तनया अपि । नन्दन्ति दयितानां तु, कुशलेन पतिव्रताः ।। १०३१ ।। तन्मुञ्च शुचमात्मानं, संस्थापय विसंस्थुलम् । द्रुपदस्य तनूजाऽसि, श्रीपाण्डोश्च वधूरसि || १०३२ ॥ इत्याद्यैर्मुरजिद्वाक्यैः, पाण्डवेयानुमोदितैः । मुञ्चति स्म शनैः शोक-श्यामिकां द्रुपदात्मजा । १०३३ ॥ अथ प्रभातकल्पायां, क्षपायां शौरि - पाण्डवाः । धृतराष्ट्रं सपत्नीक - मपशोकयितुं ययुः ।। १०३४ ॥ तत्राभ्येत्य भृशं मग्नौ, शोकनाम्नि महार्णवे । गान्धारीं धृतराष्ट्रं च नमस्यन्ति स्म पाण्डवाः ।। १०३५ ।। भक्तिप्रह्वतरं तेषु, नमस्कुर्वत्सु रोषणौ । पुनः पीनोच्छलच्छोको, तौ पराचौ बभूवतुः ॥ १०३६ ॥ पाण्डवेष्वथ तत्पाद-तले लुलितमौलिषु । वाग्मिनामग्रणीरेवं, गदति स्म गदाग्रजः || १०३७ ॥ राजन्नमी न किं पाण्डु-सूनवस्तव सूनवः १ । न क्वचिद्भक्तिरप्येषां पाण्डुतस्त्वयि हीयते || १०३८ || पूज्यां हृदि पृथातोऽपि, गान्धारीं धारयन्त्यमी । कुरवोऽपि तपः सूनो - भीमादि For Personal & Private Use Only national www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy