________________
194
पीपाण्डवपरित्रम् ॥ जर्ग:१३।।
सुयोधनमृत्युः ।
समाप्तिः॥
॥२५५॥
पत्रिभिः प्राण-प्रयाणप्रवणो रणः॥ ९८२ ॥ प्रतिपक्षोदयाः सम्य-ग्मत्राङ्गरिव पञ्चभिः । काठणेवैयक्रियन्ते स्म, द्रौणिमुख्यास्त्रयोऽपि ते ॥ २८३ ॥ तैरथोजागरूकाभि-लज्जाभिरतितर्जितैः । मारमर्वाभिमारेण, प्रहर्तुमुपचक्रमे ॥ ९८४॥ पाश्चालविशिखान् बाण-श्रेणिोणेरशोपयत् । नैदाघस्य रवेरुस्र-मण्डलीव जलाशयान् ॥ ९८५ ॥ पञ्चताशालिनी शश्वद्विभ्रंतामभिधामपि । कार्णेयानां ततश्चक्रे, पञ्चतैव तदाशुगैः ॥ ९८६ ॥ तच्छिरांमि क्षणाच्छित्वा, पाण्डवेयधियैव तैः।। अश्वत्थामादिभिःप्रीत-निन्यिरे कौरवान्तिकम् ।। ९८७॥
वेदनातिशयान्मूछे-न्मू मुकुलितेक्षणः । तत्र तैर्ददृशे श्वास-मात्रशेषः सुयोधनः ।। ९८८ ॥ सरःसलिलसेकेन, प्रत्याहृत्याथ चेतनाम् । सानन्दस्य पुरस्तस्य, मुश्चन्ति स्म शिरांसि ते ।। ९८९ ॥ क्षणाचारणिकाष्ठानि, ते निर्मथ्य पृथूर्जिताः। रचयांचक्रुरुद्दथोतं, द्योतिताखिलभूतलम् ॥ ९९० ॥ अभ्यधुश्च धराधीश !, छिन्नान् पश्चाप्यमन् पुरः। पाण्डवानां क्षणं मौली-नालोक्य भव निर्वृतः ।। ९९१ ।। इत्येतया गिरा तेपां, मनागुन्मथितव्यथः । पूर्वाङ्गत्यक्तभृमिस्तान्, सम्यग्मौलीन्यलोकयत् ।। ९९२ ॥ तानुद्वीक्ष्य स वैलक्ष्य-श्यामीकृतमुखद्युतिः । दीर्घ निश्वस्य भूयोऽपि, पपात सहसा भुवि ॥ ९९३ ॥ जल्पति स्म च धिग्मुर्खाः !, कोऽयं युष्मत्पराक्रमः १ । पाञ्चालाः खलु युष्माभि-जग्निरेऽमी स्तनंधयाः ॥ ९९४ ॥ सन्ति दुष्टास्तु ते स्पष्ट-मखण्डा एव पाण्डवाः । क्व वा भाग्यानि मे तानि ?, यैः पश्येयं हतानमन् ॥९९५॥ इति मन्दं वदन्नेवा-तुच्छमूर्छाभराकुलः । क्रौर्यत्रस्तैरिव प्राणै-स्त्यज्यते स्म सुयोधनः ॥ ९९६ ॥ (त्रिभिर्विशेषकम् )।
१ किरणसमूहः । २ 'भ्रतां नवतामपि' प्रतिद्वयपाठः, तत्र नवता-यौवनम् । ३ भूमेः किञ्चिदुत्थायेत्यर्थः ।
॥२५५॥
in Educa
t ional
For Personal & Private Use Only
Mainelibrary.org