________________
133 द्रौणिमाभाष्य, कृतवर्म-कृपान्वितम् । वधाय पाण्डुपुत्राणां, प्राहिणोद्धृतराष्ट्रभूः ॥९६८॥
ते त्रयोऽपि ततोऽनेक-भटश्रेणिविसंकटम् । अहाय पाण्डवेयानां, स्कन्धावारमुपागमन् ॥ ९६९ ॥ रे कौन्तेयचमूसैन्याः!, सत्वरं कुरुतायुधम् । क्रुद्धो युष्मासु नन्वश्व-स्थापनामा यमोऽधुना ॥ ९७० ॥ इति द्रौणिगिरं श्रुत्वा, स्फूर्जथुस्फूर्जितापहम् । चापारोपनिनादं च, त्रयाणामपि दो ताम् ।। ९९१ ॥ द्रवन्निद्रासुखं काम-मुच्छलत्तुमुलारवम् । क्षुभ्यति स्म क्षणात् सर्व, शिबिरं पाण्डुजन्मनाम् ॥ ९७२ ।। (त्रिभिर्विशेषकम् ) त्रयाणामपि निःशेपं, तेषां विशिखपतिभिः । कल्पान्ताशनिकल्पाभिः, पाण्डवानीकमानशे ॥ ९७३ ॥ कोदण्डमधिमौर्वीकं, कुर्वाणौ रभसात्ततः । धृष्टद्युम्नः शिखण्डो च, धावतः स्म महाभुजौ ॥ ९७४ ॥ ततस्ताभ्यां भृशं दुष्ट-ग्रहाभ्यामिव सर्वतः । क्रियते स्म कृपादीनां, बाणवृष्टेरवग्रहः ॥ ९७५ ॥ पराक्रममयीं कांचि-दिष्टिमिष्ट्वा भटाहुतिम् । तौ क्षणाल्लम्भितौ शान्ति-मश्वत्थामादिभिस्ततः ॥ ९७६ ॥ मूर्द्धानौ तैनिकुन्तद्भि-धृष्टद्युम्न-शिखण्डिनोः । वैरनिर्यातनं काम-मकारि द्रोण-भीष्मयोः ॥ ९७७ ॥ तयोनिहतयोद्वेष-रागयोरिव तैः क्षणात् । कर्मानीकमिवानेशत् , पार्थीयमखिलं बलम् ॥ ९७८ ॥
पञ्चानां पाण्डवेयानां, द्वितीया इव मूर्तयः । पाञ्चालीकुक्षिकासार-पुण्डरीकास्ततो जवात् ।। ९७९ ॥ विशिखा इव पश्चपो-जंगद्भिरपि दुर्जयाः । क्रुद्धाः पञ्चापि पाञ्चाला, भजन्ते स्माभ्यमित्रताम् ॥ ९८० ॥ (युग्मम् ) पाण्डवेयभ्रमाद्रात्री, | द्रौणिप्रभृतयोपि ते । धावन्ति स्माधिकक्रोध-गरिष्ठभुजसौष्ठवाः ।। ९८१॥ अथाभूदुभयेषाम-प्यमीषामितरेतरम् । विमुक्तैः
१ वनध्वनिनाशकरीम ।
Jan Education Interations
For Personal Private Use Only
www.n
ary.org