________________
ाण्डव
त्रम् ॥ : १३ ॥
१५४॥
192
मिमाम् ॥ ९५३ ॥ किं त्विदानीमधोऽस्माभिः स्थितैर्न्यग्रोधभूरुहः । वनेऽस्मिन् महती दृष्टा, युक्तिः प्रत्यर्थिमन्थने ।। ९५४ ।। तत्र हि क्षणदादक्ष - चक्षुषाऽभ्येत्य तत्क्षणात् । काकानीकमुलूकेन, सर्व सुप्तमहन्यत ।। ९५५ ।। तद्दृष्ट्वा तुष्टचेतोभि-रित्यस्माभिरचिन्त्यत । यदेकोऽप्यखिलान् हन्ति, कालमालम्ब्य शात्रवान् ॥ ९५६ ॥ अस्माभिरपि तन्नूनमिदानीं निशि पाण्डवाः । रणोत्तीर्णतया स्वैरं खपना नातिदुर्जयाः ।। ९५७ ।। इत्यालोच्य वयं रात्रि - संगरे कृतसंगराः । भवदादेशमादातु - मिहागच्छाम संप्रति ।। ९५८ ॥ जीवतस्ते बलाच्छित्त्वा पाण्डुपुत्रशिरांसि चेत् । दर्शयेमहि तत् किंचि - दानृण्यं त्वयि नो भवेत् ।। ९५९ ।।
इत्येतैर्वचनैस्तेषां, पीयूषरसवर्षिभिः । विस्मृत्य वेदनावेग - माकृष्याश्लिष्यति स्म तान् ॥ ९६० ॥ वक्ति स्म च महावीरा !, जल्पतेदं पुनः पुनः । यच्छिरांसि द्विषां छित्त्वा दर्शयिष्यामहे तव ।। ९६१ ।। न तत् किमपि युष्मासु, यन्न संभाव्यते खलु । किंचिन्नास्त्येव यच्चिन्ता - रत्नस्यापि दवीयसि ।। ९६२ ।। तञ्जवाद्गच्छत च्छित्त्वा मौलीन् दर्शयत द्विपाम् | मदीयैर्न खलु प्राणैः, स्थातुमीशिष्यते चिरम् ॥ ९६३ ॥ अश्वत्थामन् ! गुरोस्तस्य तनयोऽसि त्वमौरसः । मानसोऽहं पुनस्तेन, महज्ज्ञातेयमावयोः ॥ ९६४ ॥ तद्विधृत्य मयि प्रीति माविः कृत्याप्यनुग्रहम् । मूर्ध्नः पाण्डुभुवां कृत्तान्, यदि दर्शयसि क्षणात् ।। ९६५ ।। प्रस्थितस्य तदेदानीं वर्तनीं पारलौकिकीम् । ममानन्दमयं दत्तं पाथेयं भवता भवेत् ।। ९६६ ।। ( युग्मम् ) अजेयोऽसि त्वमेकोऽपि, शात्रवाणां शतैरपि । कृतवर्म-कृपाचार्य - संगतस्तु किमुच्यते १ ।। ९६७ ॥ इत्यादि १ सुखसुप्ताः । २ कृतप्रतिज्ञाः । ३ मार्गर !
Jain Education International
For Personal & Private Use Only
युद्धवर्णनम् ॥
॥२५४॥
jainelibrary.org