________________
191
Hiपदा मुकुटपेषणम् । रोषोन्मेषारुणीभूत-सर्वाङ्गद्युतिरभ्यधात् ॥ ९३८ ॥ धिग्धिग्बतेदमक्षत्रं, न म्लेच्छेष्वपि वर्तते । रिपोरपि
किरीटो यत, पेतुषः पिष्यते पदा ॥ ९३९ ॥ कदाचिदपि कस्यापि, नैवान्यायमहं सहे। मादृग्विधा हि सर्वेषा-मनाचारचिकित्सकाः ॥ ९४०॥ ममैतन्मुसलं कोपा-दन्यायस्यास्य यत् फलम् । पश्चानां पाण्डुपुत्राणां, तत् सद्योऽदर्शयिष्यत ॥९४१ ॥ नाभविष्यदिदं हन्त, यदि ज्ञातेयमन्तरा । तथापि मुखमीक्षिष्ये, नाहमेषामतः परम् ॥ ९४२ ॥ (युग्मम् ) इति संकर्षणो रोष-कलुषः परुषाक्षरम् । उदीर्य निजमावासं, त्वरितं त्वरितं ययौ ॥९४३॥ रौहिणेयानुवृत्त्येव, कर्मसाक्ष्यपि तत्क्षणात् । रोषावेशवशात्ताम्रः, कापि द्वीपान्तरेऽगमत् ॥ ९४४ ॥ तथैव पतिते काम, वेदनाविमनीकृते । कोपादुज्झति कौरव्ये, निश्वासान्नासिकंधमान् ॥ ९४५॥ मुरारातिरथाकृष्य, साकूतः पाण्डुनन्दनान् । ज्यायांसं भ्रातरं मान्य-मनुनेतुमचालयत् ॥९४६॥ (युग्मम् ) दक्षौ शिबिररक्षायै, धृष्टद्युम्न-शिवण्डिनो। आदिश्य सह कृष्णेन, पाण्डवेयाः प्रतस्थिरे ॥९४७॥ आयोधनाध्वजङ्घालैः, पाश्चालैः समलंकृतम् । आदाय सैन्यमावासा-ञ्जग्मतुद्रपदात्मजौ ॥ ९४८ ॥
ततो दिङ्मुखकस्तूरी-पत्रभङ्गथ इवोदगुः । कौरवेश्वरनिश्वास-धूमसान्द्रास्तमश्छटाः ॥ ९४९ ॥ सहस्रगुणितध्वान्ता, माभिः कौरवेशितुः । साकं तैस्तैमनोदुःखैः, प्रससार तमस्विनी ॥ ९५०॥ अथाभ्येत्य तथासंस्थ-मृचिरे मन्युगद्गदम् । कृतवर्म-कृप-द्रोण-सूनवः कुरुपुङ्गवम् ।। ९५१ ॥ महाराज! त्वमेवासि, मानिनामधिदैवतम् । ईदृशेऽपि स्थिते येन, दैन्यं चक्रे न वैरिषु ।। ९५२ ॥ वयं तु कर्मचाण्डालाः, कृतनैकधुरंधराः । शत्रुभिः पश्यतां येषां, लम्भितोऽसि दशा
१ झातिसंबंधः । २ युद्धमार्गपथिकैः ।
Jain Edu
For Personal & Private Use Only
www.jainelibrary.org