________________
पाण्डव
रेत्रम् ॥
: १३ ॥
| २५३॥
Jain Edu
Ll
190
सूदिते सूतनन्दने । शल्ये निर्मूलिते सिन्धु-राजादिषु हतेषु च ।। ९२३ ।। पश्यतामेव नः सोऽयं सर्वेषामपि जीवितम् । धृष्टेन धार्तराष्ट्रेण, मारुतिर्यन्निहन्यते ॥ ९२४ ॥ ( युग्मम् ) इत्यर्जुनोक्तमाकर्ण्य कंमविध्वंसनोऽवदन् । पार्थ ! भीमेन कौरव्यः, सत्यमेत्राऽस्ति दुर्जयः ॥ ९२५ ।। अयं हि खुरलीरङ्गे, कुर्वाणो गदया श्रमम् । नित्यं लोहमयं भीमं, भस्मसादकरोत् पुरा ।। ९२६ ॥ तदेतस्य पुरो वैरि-कुले कालानलन्नपि । शङ्के न खलु वंहीयान् भीमोऽपि भुजसंपदा ॥ ९२७ ॥ किं तु चेत् प्रहरत्येन - मूरुदेशे वृकोदरः । तदानीं नातिदुर्लभं जयं संभावयामि वः ।। ९२८ ॥ भारतीमित्युपश्रुत्य, फाल्गुनो वनमालिनः । कौरव्योरुप्रहाराय मारुतिं समकेतयत् ।। ९२९ ॥ तं संकेतं विदामास, कोविदः कौरवाग्रणीः । रणसंरम्भसंभ्राम्य-दम्बेको न वकान्तकः ।। ९३० ।। कुरूणामग्रणीरूरु- घातं वञ्चयितुं ततः । मनागुच्छलति स्मो, मण्डूक इव भूतलात् ॥ ९३१ ॥ पूर्वीङ्ग एव निर्मुक्तः, प्रहारस्तु वकारिणा । तस्याभाङ्क्षीदुभावूरू, न धीर्देवाद्वलीयसी ।। ९३२ ।। उत्फालः शैलशृङ्गान्तात् कण्ठीरव इवावनौ । भग्नोरुः क्रोधधूमाय-मानो दुर्योधनोऽपतत् ॥ ९३३ ॥ असावथ व्यथापूर - पूरितोऽपि क्रुधा मुहुः । फणीन्द्रवत् फटाघातान् गदाघातानमुञ्चत । ९३४ ।। तदवस्थेऽप्यनिर्वाण-रणारम्भे च कौरवे । भीमे च जयिनि प्रीताः पुष्पाणि वपुः सुराः || ९३५ ।। कौरव्यग्रामणीः पीडा - निमीलितविलोचनः । क्षेपं क्षेपं गदां शून्यं क्रमान्निःसहतामगात् ।। ९३६ ।।
,
अथाभ्येत्य मुहुर्भीमः, पैंविसब्रह्मचारिणा । पादेन दलयांचक्रे कोटीरं कुरुभूपतेः ॥ ९३७ ॥ बलभद्रस्तदालोक्य, १ कालाग्निसदृशोऽपि । २ अम्बकं - नेत्रम् । ३ वज्रसदृशेन ।
mational
For Personal & Private Use Only
युद्धवर्णनम् ॥
॥२५३॥
janelibrary.org