SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 189 माञ्चकोरकैः । अन्तर्ज्वलितकोपाग्नि-निर्यद्धूमलवैरिव ।। ९०८ ॥ कदाचित्तौ विनिर्मुक्त- क्ष्वेडारावौ प्रसस्रतुः । पादमाकृष्य च स्वैरं, कदाचिदपसस्रतुः ॥ ९०९ ॥ भुजशौण्डीरिमोद्रेका- द्वावमानोऽतिदुःसहम् । अत्याजयत् कदाप्यन्यः, स्वां महीमितरं बलात् ॥ ९९० ॥ त्रिजगत्कौतुकास्थानं स्थानमाविश्य तौ ततः । प्रहारोदस्तहस्ताग्रा - वत्यासन्नीबभूवतुः ।। ९११ ॥ प्रक्षिप्य पुरतः पाद- मेकस्मिन्नभिहन्तरि । कृष्टाङ्गिमङ्गनाशेन, प्रहारमपरोऽत्यजत् ॥ ९९२ ॥ कदाचिच्चेलतुः प्रेङ्ख-त्करावभ्यासपाटवात् । तावन्योऽन्यगदाघातं गदयैव रक्षतुः ॥ ९९३ ॥ तदीयगदयोर्नादै - रन्योन्यास्फालनोद्भवैः । शङ्कन्ते स्म जगत्कोश- स्फोटमाकालिकं जनाः ॥ ९९४ ॥ तयोरित्थमतिक्रोधा - दुद्धतं युध्यमानयोः । जयश्रीः सुचिरं तस्था - वात्तया वरमालया ॥ ९९५ ॥ कौरवोऽथ चिरादृष्टि, वञ्चयित्वा कथंचन । निबिडं ताडयामास, मौलिदेशे मरुत्सुतम् ॥ ९९६ ॥ तत्प्रहारव्यथाभार-निर्भरभ्रमितेक्षणः । मारुतिः क्षोणिमद्राक्षी - मदद्रि-वन- द्रुमाम् ॥ ९९७ ॥ सच्चोत्कर्षादधात्मानं, संस्थाप्य स कथंचन । क्रोधप्रगुणितप्राणः, प्रजहे हृदि कौरवम् ॥ ९९८ ॥ तेन दुःखासिकामात्र - मनुभूय सुयोधनः । निहन्ति स्म पुनर्मूर्ध्नि, कोपाटोपाकोदरम् ॥ ९१९ ॥ तत्पीडाभिरभूदन्धं - भविष्णुनयनद्वयः । निकामं निःसहीभूत - सर्वाङ्ग पवनाङ्गजः ।। ९२० ॥ तथाभूतं तमालोक्य मलीमसमुखद्युतिः । ससंभ्रममभाषिष्ट, किरीटी कैटभद्विषम् ॥ ९२९ ॥ हन्त गोविन्द ! गोविन्द !, किमस्माकमुपस्थितम् ? | उत्तीर्य पाथसां नाथ - मिदं गोष्पदमजनम् ।। ९२२ ।। जिते भीष्मे क्षिते द्रोणे, ' कदाचिच्च लघुप्रेङ्ख० ' प्रतिद्वयपाठः । १ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy