SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Jain Education 179 खिले । त्वयैव कलुषं तात - धृतराष्ट्रमहः कृतम् ।। ८७९ ।। घातयित्वा समित्येवं सुहृत्संबन्धिन्बान्धवान् । यदिदानीं निजप्राण - त्राणायाम्भसि मजसि ।। ८८० ॥ मनस्यापि जले किं तु जीवितव्यं न ते क्वचित् । मुहूर्तोऽपि गमी नैतत् सरः शोषयतां हि नः ।। ८८१ ।। क्काय ते स भुजादर्प-स्तृणीकृतजगत्रयः ? । येनावमत्य नः सर्वास्त्वं महीं भोक्तुमैहथाः ॥ ८८२ ।। यद्येतावदनात्मज्ञ !, त्वमासीर्मृत्युकातरः । तत्संघित्सून पुरा किं न गोत्रवृद्धानमानयः ।। ८८३ || संधिमादधतं किं च पञ्चग्राम्याऽपि शार्ङ्गिणम् । निराकृत्य तदा किं त्वमात्मनीनममूत्रयः ? ॥ ८८४ ॥ तत्तेऽद्य स्फुटमायात, एव मृत्युर्यथा तथा । जीवितं ह्यतिदुर्लम्भ- माप्तवाक्यविलङ्घिनाम् ।। ८८५ || अत्यन्तानुचितां क्षत्र- व्रतस्य च कुलस्य च । कृष्णाकेशाम्बराकृष्टिं तदा कारयतस्तव ।। ८८६ ।। बंहीयो यदभूदेहं स्तस्यास्माभिर्बलादपि । अद्य प्राणप्रहारेण, प्रायश्चित्तं विधास्यते || ८८७ || ( युग्मम् ) तन्निर्गत्याम्भसो भूत्वा शौण्डीरवेद्विपद्यसे । तदात्मभुजयोर्लज, कुलस्य च विलुम्पसि ॥ ८८८ || निर्यास्यसि न चेतर्हि, संहितः सव्यसाचिना । क्षणादाग्नेयवाणोऽसौ शोषयिष्यत्यदः सरः ।। ८८९ ॥ अथैको निखिलैर्नाम - धोद्धृभिर्योद्धुमीशिषे । तद्येन रोचते तुभ्यं तेन युद्धं विधीयताम् ॥ ८९० ॥ एकस्मिन्नप्यहो तस्मि - saधनं त्वया । जिता एव वयं सर्वे, भुञ्जीथाः पृथिवीमिमाम् ॥। ८९१ ।। श्रुत्वेति श्रवणक्रोड - विपवृष्टिमहोदराम् । भारतीं तपसः सूनो -रमर्षक्वथिताशयः ।। ८९२ ।। गदायुद्धं विनिर्णीय, समं पवनजन्मना । कौरवो निरगान्नीरा-दभ्रादिव दिवाकरः ।। ८९३ ।। ( युग्मम् ) १ संधि कर्तुमिच्छ्रन् । २ पापम् । ३ युद्धे । For Personal & Private Use Only library.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy