________________
पाण्डव
रित्रम् ॥
| १३॥
२५१ ॥
Jain Edu
178
यति स्म तम् || ८६४ || क्षुण्णेऽथ शकुनौ साक्षा-चेतसीव कुरुप्रभुः । उच्छ्रमन्नपि भस्त्रेव, चैतन्यविकलोऽभवत् ॥ ८६५ ।। वीक्ष्यानीकमथात्मीय- मेयिंवद्विशरारुताम् । गान्धारेयो गतस्थामा, जगामाकुलतां ततः । ८६६ ।। अथ सैन्यरथोद्भूतैः, सोऽन्धकारपटोपमैः । तिरोहितवपुः पांशु - पूरैः स्वैरमपासरत् || ८६७ ।। न नाम शुशुभे शेष - द्वित्रशौण्डीरमौक्तिकम् । तदा मौक्तिकदामेव, तदनीकमनायकम् || ८६८ || कृपय कृतवर्मा च द्रोणभूव त्रयोऽप्यमी । धार्तराष्ट्रमपश्यन्तः, star ra दिवाकरम् || ८६९ ।। विभ्रतः कान्दिशीकत्वं, विच्छायवदनश्रियः । कामं गवेषयामासु-विपण्णास्तमितस्ततः ||८७०|| ( युग्मम् ) भ्राम्यन्तो ददृशुस्तेऽथ, गान्धारेयपदावलीम् । मरो व्याससरो नाम, ययुस्तदनुसारतः ॥ ८७१ ॥ अम्भः संस्तभ्य संविष्टं तत्र निश्चित्य कौरवम् । भर्तृभक्त्या क्षणं तस्थु-स्तस्य ते सरसस्तटे || ८७२ || अधावलोक्य धूलीभि-स्तैः कदम्बितमम्बरम् । कौरवानुपदी पार्थ- बलराशिरशङ्कयत ।। ८७३ ॥ दृष्ट्वा नोsत्र स्थितं पार्था, ज्ञासिषुर्मा स्म कौरवम् । इत्यालोच्य तिरोऽभूवन् क्वापि ते तरुगह्वरे ॥ ८७४ ॥ तस्मिन् सरसि विज्ञाय वनेचरगिरा ततः । प्रविष्टं कौरवाधीश - मन्वगुः पाण्डुसूनवः ।। ८७५ ।। तदैकाक्षौहिणीशेष- बलसंभारभासुराः । तिष्ठन्ति स्म सुताः पाण्डोविरमावृत्य तत्सरः || ८७६ ॥
तन्नीरस्य ततस्तीर-मधिष्ठाय युधिष्ठिरः । स्पष्टमामृष्टमर्माणं, वाणीमिति समाददे || ८७७ ॥ दुर्योधन ! मुधा वीरं, त्वां स्म मन्यावहे वयम् । मृगेन्द्रमतिरस्माकं, फेरवे स्फुटमस्फुरत् || ८७८ || निष्कलङ्के कलङ्कोऽभू-स्त्वमेवास्मत्कुले१ प्राप्तम् । २ शृगाले ।
ernational
For Personal & Private Use Only
B
युद्धवर्णनम् ॥
॥२५१॥
jainelibrary.org