SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पाण्डव वर्णनम् ॥ र्गः१३॥ ।२५०॥ 16 नन्वियं ते त्रपा परा ॥ ८३५॥ ऋष्टास्मि ते सुतं शल्यो-दरादिति गिरं निजाम् । एवं तिष्ठन् सुदेष्णाग्रे, कथं सत्यां करिष्यसि ? ॥ ८३६ ।। वधोत्सुकोऽपि बीभत्सु-स्त्वत्संगरमनुस्मरन् । क्षुन्दानेऽपि चमूं शल्ये, बाणश्रेणी न मुञ्चति ॥८३७ ॥ तत् झगित्युत्सृज स्थैर्य-मौर्जित्यमुररीकुरु । लम्भय प्रसभं शल्य-मेनं कीनाशदासताम् ॥ ८३८ ॥ इत्यच्युतवचष्टको-ल्लिखितात्मा तपःसुतः । प्रतिज्ञा मद्रभूभतु-रामध्याह्वाधे व्यधात् ॥ ८३९ ॥ उत्कल्लोलं ततः शल्यं, धर्मभूर्भुजवैभवात् । नर्मदायाः परीवाहं, कार्तवीर्य इवारुधत् ।। ८४० ॥ उच्छलद्राणनिर्वाण-गीर्वाणनयनस्ततः । अभूत् कृतजगडिम्ब-डम्बरः समरस्तयोः ॥ ८४१ ।। विश्वसंहारिभिः काली-कटाक्षैरिव तत्क्षणात् । व्यानशे निशितव्योम, तत्कलम्बकदम्बकैः ॥ ८४२ ॥ स्तृणोति स्म क्षणं बाणै-लाघवोल्लाघमुक्तिभिः। सरथ्यं मरथं धर्म-नन्दनं मद्रभूपतिः ॥८४३ ॥ मुमुर्छाथ क्रमाच्छिन्द-शल्यवाणमयं तमः । प्रगेतन इवोदयोतो, युधिष्ठिरशरोत्करः ।। ८४४ ।। शल्यत्राणकृते दूरा-द्धावन्तोऽन्यधराधवाः । भाग्यैरिव विपत्पूगाः, फाल्गुनाद्यैर्ममन्थिरे ।। ८४५ ॥ मध्यंदिनदिनाधीशः, पश्यंस्तत्समरोत्सवम् । लक्ष्यते स्म तदा व्योम्नि, मन्दमन्दमिवोच्चलन् ॥ ८४६ ॥ युध्यमानं ततो यत्ना-द्गतं बाणैरजेयताम् । निहन्ति स्म तपासूनुः, शक्त्या शल्यममोघया ।। ८४७ ॥ व्यालदन्तावलेनेव, क्रोधादन्धंभविष्णुना | मरुद्भवाऽप्यभिद्यन्त, भृयांसो युधि कौरवाः ॥ ८४८॥ उद्यत्पार्थप्रतापाख्य-बालार्केणेव शोणिताः। प्रावर्तन्ताभितः कुम्भि-द्वयस्यो १ निर्वाणं-निमीलितं निश्चलं वा । २ डिम्ब:-कलकलध्वनिः । ३ कलम्ब:-बाणः । ४ लाघवेन शुद्धं मोचनं येषां तैः ।। | ५ ववृधे । ६ आपत्समूहाः । ७ गजप्रमाणाः । ॥२५०|| For Persons & Private Use Only P ainelibrary.org.
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy