________________
173
न बन्धुषु ।। ७९० ।। इति वैरायमाणं तं विनिश्चित्यार्जुने मया । वक्तुमिष्टोऽपि युष्मभ्यं, नोदन्तोऽयमकथ्यत ॥ ७९१ ॥ • ज्ञातेऽस्मिन्नर्जुनो बन्धु - स्नेहविक्लवतां गतः । यदि कर्णेन हन्येत तद्भवेत् किं हि मङ्गलम् ? ।। ७९२ ।। इत्याकर्ण्य गिरं शार्ङ्ग - पाणेर्बाष्पायितेक्षणाः । पाण्डवाश्चक्रिरे सर्व, राधेयस्यौर्ध्वदेहिकम् ॥ ७९३ ॥
यावतिष्ठन्ति ते स्तोक- शान्तशोकभरास्तदा । तावत् प्रौढप्रभाजाल - क्षालितक्षणदामलान् ॥ ७९४ ॥ आतपत्रायितस्फार-स्फुटामण्डलमण्डितान् । कांश्चिदालोकयांचकु - दिव्यमूर्तिधरान् पुरः ।। ७९५ ।। ( युग्मम् ) पञ्चाङ्गचुम्बितक्षोणि-तलैरानम्य तैस्ततः । विज्ञापितस्तपः सूनुः कुङ्खलीकृतपाणिभिः ॥ ७९६ ॥ देव ! दिव्ये पुरा तस्मिन् पन्नगेन्द्रसरोवरे । विप्रियं यैर्वितेने व-स्ते वयं पवनाशनाः ।। ७९७ ॥ तदा साहायकं यावत् कर्णयुद्धे किरीटिनः । रुषा वारितवान् द्वारमस्माकमुरगप्रभुः || ७९८ ॥ तदद्य कृतमस्माभिः साहाय्यं सितवाजिनः । मज्जयद्भिः क्षितौ चक्र-द्वयं कर्णवरूथिनः ।। ७९९ ।। हत्वा च सपरीवारं कौरवेन्द्रमसंशयम् । यूयं भविष्यथ प्रातः, पारीणाः प्रधनाम्बुधेः || ८०० ॥ तदादिश यथैनं वो, जयोद्न्तसुधारसम् । उपायनमुपादाय, पश्यामः पन्नगेश्वरम् ॥ ८०१ || धर्मजोऽपि यथौचित्यं रचितस्वागतक्रियः । भीमाद्यैरादरादृष्टा - नाभाष्य विससर्ज तान् ॥ ८०२ ॥
इतश्च कौरवः कर्ण, कर्णधारं रणार्णवे । शोचशिविरमागत्य, पल्यङ्केऽवाङ्मुखोऽपतत् ॥ ८०३ ॥ विलीन इव मूर्च्छाल, इव व्यसुरिवाथ सः । न ददर्श न शुश्राव न विवेद च किंचन ॥ ८०४ ॥ तस्मिञ्शोकनिपीतेऽभूत् कामं शोकमयी १ सर्पाः । २ युद्धसमुद्रस्य ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org