SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Education 169 अथ सर्वाभिसारेण शराणामनणूर्जितः । मृत्युमेवोररीकृत्य स योद्धुमुपचक्रमे ॥ ७३४ ॥ एकाश्रयमसंदेह - जयलक्ष्मीनिरीक्षितः । बभूव भीमः समर-स्ततः कर्ण - किरीटिनोः ॥ ७३५ ॥ व्योम्नि वैमानिकैर्दिक्षु, दिग्गजैर्भुवि भूचरैः । उच्छलतच्छरत्रात - भीत्या दूरेण दुद्रुवे ।। ७३६ ।। कल्पान्तचलितोदन्य-नीरनिर्घोषभीषणः । भयसंभ्रान्तयोरासी- द्वाहिन्योस्तुमुलो महान् ॥ ७३७ ॥ वह्नीकैः क्वचिदास्फाल्य, कोलाहलपलायितैः । बभञ्जिरे रथाः साकं, रथिकानां मनोरथैः ॥ ७३८ ॥ नीचैमर्गद्रुशाखाभिः, पर्यस्तकुथकैतनाः । इमाः प्रणेशुर्झम्पामि - र्नश्यदाधोरणा रणात् ।। ७३९ ॥ कर्ण - फाल्गुनयोरश्वान्, पुनर्मद्रेश - केशव । धारयांचक्रतुः सम्य - कसारथ्यकलया बलात् ।। ७४० ॥ सर्वस्मिन्नप्यनीकेऽथ, विद्रुते वीरकुञ्जरौ । रेजतुस्तौ रणासक्ता - वटव्यामिव कुञ्जरौ || ७४१ || अथैवं रणसंरम्भे, कर्णस्या चक्रनाभितः । मङ्क्षु धर्म इवानीतौ, निर्ममज रथः क्षितौ ॥ ७४२ ।। कलाकल्पेन शल्पेन, प्रेरिता अपि वाजिनः । नेसते स्म तमुद्धर्तु, विवेकमिव दुर्धियः ॥ ७४३ || श्यामलिम्नाऽधिवक्त्रेन्दु, वैलक्ष्येणाधिमानसम् । मैन्दिम्ना चाधिदोर्दण्डं, कर्णस्याक्रियतास्पदम् ॥ ७४४ ॥ सोऽथ स्वयमवातारी - दुद्दिधीर्षुर्वरूथिनम् । उच्चैरुत्साहमारोहतदानीमर्जुनः पुनः ॥ ७४५ ॥ ततः पल्लवितप्राणं, बाणधोरणिवर्षिणम् । कर्णोऽभ्यधत्त बीभत्सु-मीपदैन्यकिरा गिरा ।। ७४६ ।। क्षत्रियक्षिप्तमक्षत्रमिदमर्जुन ! मा कृथाः । “ न खल्वयुध्यमानेषु प्रहारः सत्यशालिनाम् " || ७४७ ॥ क्षात्रं धर्ममिमं वीर !, यदि त्वमपि १ वालीकदेशजैरवैः । २ चक्रनाभिपर्यन्तम् । ३ मन्दत्वेन । ४ क्षत्रियेणानङ्गीकृतम् । ५ 'सत्व ० ' प्रत्यन्तरपाठः साधुः । ४: For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy