SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ र्गः १३ ।। |२४६॥ 168 शराः करा इवोष्णांशो - र्मुष्णन्ति स्म किरीटिनः । ७१८ || फाल्गुने वल्गति स्वैरं, पत्रिपत्रौघशातिनि । बभूव च्छिदुरच्छायः, कामं कर्णमहीरुहः ॥ ७१९ ॥ मन्दीभृतेऽथ कर्णस्य, शरशैशिरमारुते । वाणदक्षिणवाते च स्फूर्जत्यधिक मार्जुने ॥ ७२० ॥ कौरवाः परितः कुन्दा, इवासुमनसोऽभवन् । विकाशं चागमन्नु चै श्रम्पका इव पाण्डवाः ॥ ७२१ ॥ ( युग्मम् ) अन्धी भ्रष्णुरथो जिष्णु-मार्गणैरङ्गभूपतिः । अत्रस्नुरस्त्रमाहेयं, महीयः समजूहवत् ॥ ७२२ ॥ प्यधीयन्त तडिद्दण्ड- मण्डि - ताब्दविडम्बिभिः । विषज्वालाकरालास्यै- दन्दशू कैर्दिशस्ततः ॥ ७२३ ॥ बभुर्व्यालच्छलात् सप्त सप्तसौप्तिकहेतवे । संभूयेवागताः सर्व-शर्वरीतिमिरोर्मयः ।। ७२४ || भुजङ्गजलदैः सद्यः, पीते तपनतेजसि । तत्फणामणयो ज्योति - रिङ्गणा इव रेजिरे ॥ ७२५ ॥ सर्पसंतमसे तस्मिन् द्यावाभूमिपिधायिनि । सुभद्रा भर्तुरास्येन्दुः शुशुभेऽभिनवोदयः ॥ ७२६ ।। काद्रवेयैरुपद्रोतु - मनोभिरभितोऽर्जुनम् । संभ्रमादभ्रमि स्वैरं, साक्षादापद्भेदैरिव ॥ ७२७ ॥ तान्मुरारानिरालोक्य, त्रैलोक्यैकभयंकरान् । Trustaurant बन्ध-शङ्कातङ्काकुलोऽभवत् ।। ७२८ ।। अथाहेयास्त्रसंहार - हेतवे तार्क्ष्यदैवतम् । कार्मुके सायकं सद्यः, संदधे च धनंजयः ॥ ७२९ ।। जग्मुश्च क्वापि निर्नाम, ते भुजङ्गमपुंगवाः । दुर्नीतिहतवृत्तीना-मसाधूनामिवोदयाः || ७३० || राधेयस्य ततश्वेतः प्रविष्ट इव विष्टपम् । उज्झामास तमस्तोमः पाण्डवांश्च भयोदयः ॥ ७३१ ।। साक्षादिव जये तस्मिन्नने विलयमीयुषि । घटोत्कचवधादाप्त-वत्यां शक्तौ च रिक्तताम् || ७३२ || निश्चिकायात्मनः काय-व्ययं कर्णः कपिध्वजात् । राज्यभङ्गं कुरूणां च पाण्डवानां च संपदम् ।। ७३३ ।। (युग्मम् ) १ सार्पम् । २ सूर्येण सह रात्रियुद्धनिमित्तम् । ३ खद्योताः । ४ सर्वैः । ५ आपद एव भटास्तैः । Jain Education International For Personal & Private Use Only युद्धवर्णनम् ॥ ॥ २४६ ॥ www.jainvelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy