SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ पाण्डव- रित्रम् ॥ र्ग:१३॥ वर्णनम् ।। भ २४५॥ REG वीरकुञ्जरमानिनः। शौण्डीर्यदन्तभङ्गाय, भवतोऽद्यास्मि भूमिभृत् ॥ ६८८ ॥ मत्प्रतापयुगान्तार्क-स्त्वदाहुमहिमार्णवम् । निपीयाद्य कुलं पाण्डो-विश्वं निर्दग्धुमीहते ।। ६८९ ॥ महीतलमिदं पाण्डु-सुतानुत्पाट्य कण्टकान् । अद्य कौरवकीर्तीनां, सुसंचार करोम्यहम् ।। ६९० ॥ इत्यहंकारझंकारि-गिरमङ्गावनीश्वरम् । सौष्ठवोत्तिष्ठदुद्दाम-रोमाञ्चोऽवोचदर्जुनः ॥६९१॥ राधेय! वीरधौरेयः, को विना त्वां जगत्यपि । ऋते 'मिहिरमन्योऽस्ति, यदि वा न दिवाकरः ॥६९२।। किं तु नात्मगुणः सद्भि-रात्मनैव प्रकाश्यते । क्रियैव खलु कर्तव्या, गुणवैतालिकी जने ॥६९३।। विषप्रमोष एवोच्चै-र्वक्ति गारुत्मतं मणिम् । निगदत्युदयं ध्वान्त-धंस एव विवस्वतः ॥ ६९४ ॥ तत्वया मद्वधायैव, जन्मप्रभृति संभृतम् । यजगत्रितयामोदि, कार्मुकाभ्यासपाटवम् ॥ ६९५ ।। द्रुतमिष्वासमाकृष्य, तदद्य प्रकटीकुरु । शौण्डीराणां हि शौण्डीयं, दोष्णोर्वसति नो गिरि ॥ ६९६॥ (युग्मम् ) किं त्ववश्यं वचस्येव, पर्याप्तत्वात् पराक्रमः । भुजस्तम्भेषु वीराणां, स्वल्प एव विजृम्भते ॥ ६९७ ॥ इत्युदीरयति श्रेष्ठ-सौष्ठवं सव्यसाचिनि । कालपृष्ठे भटप्रष्ठो, राधेयः संदधे शरम् ॥ ६९८ ।। जृम्भमाणगुणः शश्वद्विश्वकर्णान्तसीमनि । कृष्ट्वा चापगुणं कर्णः, स्वकर्णाभ्यर्णमानयत् ॥ ६९९ ॥ तदाकर्षभवत्क्रूर-फ्रेंकारकपटादभूत् । साट्टहास इवेष्वासः, संगरोत्सवहर्षुलः ।। ७०० ॥ कलयामास कर्णस्य, मुष्टिः कर्णान्तसंगतः। विकासविकलोत्तंस-सरसीरुहविभ्रमम् ॥ ७०१ ॥ नीरादिवोर्मयः सिन्धो-बिम्बादिव रखेः कराः । कार्मुकादथ कर्णस्य, कामन्ति स्म शिलीमुखाः १ सूर्यम् । २ गुणप्रशंसाकरी । ३ विषनाशः । ४ ‘ववीरा०' प्रतित्रयपाठः । ५ विकलं-व्याप्तम् । २४५॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy