SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ 163 गन्धर्वेन्द्रोऽतिंखर्वताम् ॥। ६४४ ॥ तमद्याह्वयमानस्त्व - मर्जुनं किं न लज्जसे १ । " विपर्यस्यन्ति केंदीयो-मृत्यूनां मतयोऽथवा " ।। ६४५ ॥ अथ प्रादुर्भवत्कोप - कम्पञ्चम्पेश्वरोऽब्रवीत् । मद्राणां म्लेच्छवृत्तीना - मनुरूपमिदं वचः || ६४६ || परमेतर्हि ते किंचिदन्तरं दर्शयिष्यते । चेत् कुण्डलितकोदण्डः, पुरो वीक्षिष्यतेऽर्जुनः ॥ ६४७ ॥ शल्येनाभिदधे शीर्ष-च्छेदादर्वाकिरीटिनम् । सम्यङ् न ज्ञास्यसे कर्ण !, पश्य पश्य पुरस्ततः । ६४८ ॥ पार्थः सोऽयं रथारूढः कृष्णसूतः कपिध्वजः । अभ्येति निम्नन् सैन्यानां, ध्यानवह्निरिवैनसाम् || ६४९ ।। इत्याकर्ण्य गिरं कर्णः कीर्तितां मद्रभूभुजा । क्रोधधूमायितवान्तः, क्षणं तूष्णीकतामधात् ॥ ६५० ॥ शरैर्वर्षन् दधावेऽथ, राधेयोऽनु धनंजयम् । विरोकैरनु भूर्लोकं, कल्पान्तद्युतिमानिव ।। ६५१ || मार्गे स मार्गणैर्वीरान्, संजहार सहस्रशः । तरङ्गैर्नूतनप्रावृद्-नदीरय इव द्रुमान् ||६५२ || प्रत्यैच्छदुरुमात्सर्य, तमायान्तं तपःसुतः । सरिदोघमिवोद्वीचि - रापतन्तं महाइदः || ६५३ || निर्भरासृग्भरोद्गार - कातरीकृतखेचरः । आसीत्तयोः शरासार - व्याप्तव्योमाङ्गणो रणः ।। ६५४ ॥ मास्मान्योऽन्यमिमौ क्रुद्ध, निरीक्षेतामिति ध्रुवम् । शराः शैलीभवन्ति स्म, छिन्नास्ताभ्यां मिथोऽन्तरे ।। ६५५ ।। मुष्टिरन्योऽन्यनिर्मुक्तः, सायकैरित्र कीलितः । एक एव तयोर्वीक्षां चक्रे कर्णान्तमागतः । ६५६ ॥ पत्रिभिस्त्वभितोऽप्यस्त्र-विद्ययेव विनिर्मितैः । गगनं च दिगन्ताश्च, तिरयांचक्रिरेतराम् ॥ ६५७ ॥ तयोर्वाणत्रणोद्गीर्णो, रेजे रुधिर१ अतिनम्रताम् । २ नमीपस्थमृत्यूनाम् । ३ किरणैः । ४ अरुधत् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy