SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ र्गः१३॥ ।२४०॥ 156 धूमैरिवाभवत् ।। ५४० ॥ (युग्मम् ) ऊर्ध्वबाहुस्ततोऽवादी , सैन्यानुचैस्तरां हरिः । उज्झतोज्झत शस्त्राणि, रथान्मुश्चत मुश्चत ॥ ५४१ ॥ भक्तिनम्रीभव- वर्णनम् ।। न्मौलि, नमस्थत नमस्थत । अत्रमेतद्यथा विश्व-घस्मरं शाम्यति क्षणात् ।।५४२।। (युग्मम् ) इति शोरेगिरा वेगा-दायुधानि, धनुर्धराः। संगराभिनिवेशेन, समं सर्वेऽपि तत्यजुः ॥ ५४३ ॥ किं चापत्रपया साध-मुज्झांचक्रुर्वरूथिनः । नमन्ति स्म च तन्मौलि-चलचुम्बितभृतलाः ॥५४४॥ अहंकारकुलागार-मात्मजो मरुतः पुनः। शस्त्रत्यागादि तत् किंचि-न चकार कथंचन ॥ ५४५ ॥ जगाद च जगत् सर्व, यस्यैतत्तृणमेव मे । सूर्याचन्द्रमसावेतौ, यस्य ग्रासार्धमेव मे ॥ ५४६ ॥ अगाधोऽप्ययमम्भोधि-र्यस्य मे गोष्पदायते । कुलभूमीभृतोऽप्येते, वामलूरन्ति यस्य मे ॥ ५४७॥ योऽहमुद्धर्तुमिच्छामि, काश्यपी लेष्टुलीलया। तक्षकस्य जिघृक्षामि, क्षणाद्योऽहं फणामणिम् ॥ ५४८ ॥ केलिकन्दुकतां यान्ति, यस्य मे दिग्गजा अपि । । यस्य मे पांसुदेशीयं, वासवीयं तदायुधम् ॥ ५४९ ॥ यस्य मे विश्वविश्वैक-माहात्म्यपरिमोषिणः। वितीर्णजनवित्रासेऽप्यस्वेऽस्मिन् गणनैव का ? ॥५५० ॥ (पञ्चभिः कुलकम् ) इत्याधुदीरयन्नेव, शेषानुत्सृज्य सैनिकान् । तेनास्त्रेण वकारातिरावरीतुं प्रचक्रमे ।। ५५१ ।। तूर्णमेवाथ धावित्वा, ताक्ष्यध्वज-कपिध्वजौ । अवातीतरतां भीम-माकृष्य प्रसभं रथात् ॥ ५५२ ॥ आयुधानि च सर्वाणि, मोचयांचक्रतुबलात् । प्रमोदमखिलं सैन्यं, ग्राहयामासतुः पुनः ॥ ५५३ ।। जगत्यस्खलितः काल-प्रताप इव मृर्तिमान् । तदस्त्रं सैनिकातङ्कः, साकं प्रशममागमत् ।। ५५४ ॥ द्रोणपुत्रस्तु कोपेन, दिदीपे १ विश्वनाशकम् । २ वल्मीकवदाचरन्ति । ॥२४॥ in Educ tion For Personal Private Use Only analary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy