________________
153
श्वस्थामनामैव, मालवेश्वरकुञ्जरः । कालवद्भलसंहार - मावहन्नाहवे हतः ॥ ४९८ ॥ अश्वत्थामा हतः सोऽय-मभीक्ष्णमिति वादिनाम् । सैनिकानां समुत्तस्थौ तदा कोलाहलो महान् ॥ ४९९ ॥ लोकवाक्ये गुरुस्तस्मिन् कर्णमूलमुपेयुषि । अश्वत्थानि निजे सूनौ मृत्युशङ्कामधारयत् ||५००|| अनर्जुनैस्ततो भीम-कैटभारिपुरःसरैः । लम्भितो वचनैस्तैस्तैदक्षिण्यमतिदुःसहम् || ५०१ ॥ नीचैः कथंचिदव्यक्तं, व्याजहार युधिष्ठिरः । अश्वत्थामा हतो हन्त !, हतो हन्तेति भारतीम् ।। ५०२ ।। ( युग्मस् ) तामाकर्ण्य स्फुटत्कर्ण, गिरमाजीतशात्रवीम् । तस्यामव्यभिचारित्व - प्रत्ययैकनिषण्णधीः ॥ ५०३ । उन्मीलत्सुतशोकोर्मि- परिप्लावितमानसः । । संन्यस्यति स तत्काल - माचार्यः सर्वमायुधम् ।। ५०४ || ( युग्मम् ) तदैव मुरजिद्वाचा, रथात् खगमिव द्रुमात् । द्विपमै पेपिकैर्बाणै - द्रौपदिस्तमपातयत् ।। ५०५ ।। हतोऽश्वत्थामनामायं, गजो न तु तवात्मजः । नृपेण पुनरित्युक्ते, कुपितो गुरुरब्रवीत् ।। ५०६ ।। त्वया राजन्निदं सत्य - व्रतमाजन्म धारितम् । ब्राह्मणस्यास्य वृद्धस्य, केवलं मृत्यवे गुरोः ॥ ५०७ ॥ इत्याद्यन्यदपि क्रोधा -द्वारद्वाजेऽभिधातरि । उन्मीलति स्म वाग्व्योम्नि, तत्कालमशरीरिणी ।। ५०८ ।। ब्रह्मन् ! मुञ्च रूपं स्नाहि, शमामृतसरखति । अनैकालिकं रौद्र-ध्यानमेतत् परित्यज ॥। ५०९ ।। धर्म्यं तद्ध्यानमाधेहि, धीमन् ! सांप्रतकालिकम् | आयुषः क्षय एवाय-मद्य मृत्युस्तवागमत् ॥ ५१० ॥ यत् पुरस्कृत्य निःशेष-मवतारणमङ्गलम् । तवाध्वानं विलोकन्ते, ब्रह्मलोकसुखश्रियः ।। ५११ ।। इत्याकर्ण्य भवारण्य - भीषत्वं विभावयन् । न्यक्कुर्वन् रचितातङ्कान्, रोषादीन परिमोषिणः ॥ ५१२ ॥ स्मरन् पञ्चनमस्कार - मत्रं दुरितघातिनम् । १ युधिष्ठिरसंबन्धिनीम |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org