________________
श्रीपाण्डवचरित्रम् ।। सर्गः१३
वर्णनम् ॥
॥२३॥
ise रेजिरे हरिणाङ्केषु, स्वर्भानुरसना इव ॥ ४८३ ॥ दन्तारूढोऽवलम्ब्यान्यः, कर्ण कृष्टासिधेनुकः । आदातुं मौक्तिकानीव, न्यशुम्भत् कुम्भयोरिभम् ॥ ४८४ ॥ यद्यप्याश्वेव केपांचि-न्मार्गणा गुणमत्यजन् । तथापि न क्वचित् प्रापुः, सपक्षत्वाद्विलक्षताम् ॥ ४८५ ।। अन्येषां यदद्धम्ना, करो निस्त्रिंशसंगमी । जघान ललनाः कीर्तीः, शङ्के तेनैव विद्विषाम् ॥ ४८६ ॥ उदस्थिताथ पार्थाना-मनीकिन्येकहेलया । पिपासुगुमरब्धीना-मम्भांसीव घटोद्भवः ॥ ४८७ ॥ नूतनाम्भोदवत्तस्मि-शरासारं विमुश्चति । हसस्तत्यजिरे सर्व-शौण्डीरतनुदीर्घिकाः ॥ ४८८ ॥ तस्यौपकर्णिकाः कर्णे-जपा इव पतत्रिणः । केपां नाम रणेऽभूव-न वीराणामरुंतुदाः ॥ ४८९ ॥ अभिचारकमत्राभं, दधानस्तत्तदायुधम् । बद्धमृतिरथर्वेव, दिदीपे सोऽधिकं तदा ॥ ४९० ॥ तस्मिन् वीरान् शरवात-जातवेदसि जुह्वति । स्फाररिबासविस्फारै-रभिचाराक्षरायितम् ॥ ४९१ ।। क्ष्माभुजो वीक्ष्य कोदण्ड-दण्डधारिणमाहवे । सैन्यसंहारिणं विप्र-मृर्त्या तं मेनिरेऽन्तकम् ॥ ४९२ ॥ कल्पान्ताम्भोधिरुद्वेल, इव विश्वंभरातलम् । प्लावयन् पाण्डवानीकं, निजनाराचवीचिभिः ।। ४९३ ।। व्योमाङ्कचुम्बिभिस्तैस्तैः, सायकणिसेतुभिः । आचार्यः स्खलयांचक्रे, धृष्टद्युम्नेन तत्क्षणात् ।। ४९४ ।। (युग्मम् ) तयोरथ मिथःक्षिप्त-गाधपक्षसहस्रयोः। तरङ्गिताप्सरोरङ्गः, संगरः समभृच्चिरम् ।। ४९५॥ द्रोणबाणान् विलुप्यापि, धृष्टद्युन्नशरावलिः । क्षणं रेमे तपस्यान्ते, मिहिकेव रवेः करान् ॥ ४९६ ॥ ततः क्रमाद्विवर्धिष्णु-राचार्यायः शरोत्करः । आतपोऽपरनैदाघ, इवाभूदतिदुःसहः ॥ ४९७ ॥ तदा
१ राहुजिह्वाः । २ अच्छिनत् । ३ खङ्गसंगमवान् । ४ द्रोणाचार्यः । ५ अगस्तिमुनिः । ६ पक्षे प्राणैः । GI ७ शौण्डीरा:-वीराः । ८ अथर्ववेदः । ९ धनुष्टङ्कारैः । १० गृध्रपक्षनिर्मिताः बाणाः गार्धपक्षाः । ११ हिमम् ।
॥२३८॥
Jain Educa
For Personal & Private Use Only
nelibrary.org