SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 151 ॥ ४६७ ॥ ( युग्मम् ) स क्रुधेव तया कामं, स्फुरद्वह्निस्फुलिङ्गया । समं पार्थप्रमोदेन, संजघान घटोत्कचम् ॥ ४६८ ॥ खेलति स्म तदा शोकः पाण्डवानां बले मनाक् । पुनरुज्जीवितेवाभूत्, कौरवीया तु वाहिनी || ४६९ ॥ तमस्यगणितात्मीय- परकीयभटे ततः । बद्धक्रोधमयुध्येता - मनीकिन्यावुभे अपि ॥ ४७० || भटोपरि भटाः पेतु-स्तुरगास्तुरगोपरि । मातङ्गोपरि मातङ्गाः स्यन्दनाः स्यन्दनोपरि ।। ४७१ ।। वीरशोणितमैरेयै - पानोत्सवेऽन्त । उच्चतालायितं तस्मिन् समरेऽस्थिच्छिदारवैः ॥ ४७२ ।। निरीक्ष्य चतुरो यामा-निशाऽप्येवं रणोत्सवम् । श्रान्तेव शान्तिमायासी - युध्यमानास्तु नो भटाः || ४७३ || सहानूरुप्रकाशेन, विकसन् द्रोणविक्रमः । द्रुतमद्रावयत्तांस्तान्, कौशिका निव शात्रवान् ||४७४ || विश्वोपकारिणौ शश्वत् सतां वल्लभतां गतौ । कीर्तिमल्लीनवामोद-मोदिताशेषविष्टौ ||४७५॥ तावुच्चापक्रियारौद्रौ, विराट-दुपदौ गुरुः । धर्मार्थाविव कंदर्पो, निहन्ति स्मैकहेलया ॥ ४७६ || ( युग्मम् ) रात्रिमुल्लुप्य पूर्वस्यां, पतिर्भासामथोद्गात् । उत्साहः श्रान्तिमुच्छिद्य, सेनयोश्च द्वयोरपि ॥ ४७७ ॥ उभयोरप्यनीकिन्योः कङ्कपत्रपरम्पराः । अर्कस्य च करश्रेण्यः, प्रसस्रुर्गगनाङ्गणे || ४७८ ॥ अन्वगुर्वीरचक्राङ्काः, कुरुक्षेत्रासृगापगाः । नदीरन्याः प्रफुल्लाब्जाः, प्रत्यप्रातपलोहिनीः ॥ ४७९ ॥ त्यज्यते स्म तदा चापै - रार्जवं सगुणैरपि । ध्रुवं तद्भङ्गुरा तेषा - मभूत् पर्वपरम्परा ॥ ४८० ॥ वितेने मण्डपः कैश्चि-दकाण्डे काण्डमण्डलैः । दीर्घनिद्रां सुखेनान्ये, तच्छायायां समासदन् ॥ ४८१ ॥ दत्तेऽपि धन्विभिर्लक्षे, मार्गणत्वं न तेऽत्यजन् | मन्ये तेनैव नारोहन, पत्रिणस्तं गुणं पुनः ॥ ४८२ ॥ केषांचित् पतिताः श्वेत-खेटकेष्वसियष्टयः । १ मैरेयं मद्यम् । २ अनूरुः- अरुणः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy