SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पाण्डवचरित्रम् ॥ धर्मः १३ || ॥२३५॥ Jain Educa 146 सर्वेऽप्युर्वीभृतस्तस्य, सायकासारवर्षिणः । रयं न सेहिरे कामं, वातूलस्येव शाखिनः ॥ ३९३ ॥ सुतशोकाग्निसंताप-शमायेव किरीटिनः । वैरिणां प्राणवारीणि, भृशमाददिरे शरैः ।। ३९४ ॥ दध्मौ तत्रार्जुनः शङ्ख, देवदत्तं यथा यथा । जयाशा धर्मजादीनां, जागर्ति स्म तथा तथा ।। ३९५ ।। अथ स्वबलमालोक्य, पार्थवाणैः कदर्थितम् । उत्तस्थे कुरुराजेन्दु-रुत्पात इव मूर्तिमान् ॥ ३९६ ॥ द्विपयूथाधिपेनेव, विपिने गन्धहस्तिनः । तेन सार्धं चिरं घोरः, संगरोऽभूत् किरीटिनः || ३९७ ॥ तं विलङ्घय प्लवङ्गेन्द्र-केतुः सेतुविडम्बि - नम् । नदीरय इव स्वैरं प्रतस्थे पुरतो रणे ॥ ३९८ ॥ चक्षुषा कोपदीप्रेण, दिधक्षन्निव तत्क्षणात् । कंसारिसारथिर्दूरादन्वियेष जयद्रथम् ।। ३९९ ।। तं मोहमिव कामादीन् भृशमावृत्य तिष्ठतः । तांस्तानात्मेव तेजस्वी, पार्थोऽमनान्महारथान् ।। ४०० ।। इतोऽपि रणवैयथ्या-देवदत्तध्वनौ स्थिते । किरीटिनि गते दूरं शङ्कितोऽभूत्तपःसुतः ॥ ४०१ ॥ तत्प्रवृत्तिमथ ज्ञातुं सात्यकिं सत्यविक्रमम् । द्वैतीयीकमिवात्मानं, प्रजिघाय युधिष्ठिरः ॥ ४०२ ॥ सोऽथ द्रोणं प्रणामेन, वञ्चयन्नधिकत्वरः । तद्व्यूहमविशत् पोत, इव स्रोतस्विनीपतिम् ॥ ४०३ || तटदुमानिव स्वैर - मीरयन् स महीभुजः । निम्नगापूरवत् सेतुं भूरिश्रवसमासदत् ॥ ४०४ ॥ वीरधौरेययोः कामं, वनशूकरयोरिव । अजृम्भत रणारम्भ - स्तयोर्विश्वभयंकरः ॥ ४०५ || तावन्योन्यमथो ध्वस्त - रथौ मथितसारथी । छिन्नेष्वासावयुध्येतां खङ्गखेटकधारिणौ ।। ४०६ ।। आचाDsपि बहिर्व्यूहा- दीर्घिकामिव सेवैधिम् । तपस्तनयमादातु-मशुशोषयिषच्चमूम् || ४०७ ।। मनत्यमुष्मिन् वीरौघ-मम्भो १ वायुसमूहस्य रयम् । २ देवदत्न:- अर्जुनस्य शङ्खः । ३ निधिम् । ational For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥ २३५॥ jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy