________________
LA5
! वाक्यात्मजन्मनो मृत्यु-माश
प्रविश्य स नृपावा
नन्दमुच्छेद्य, संसप्तकवधोद्भवम ।
॥ ३८१ ॥ प्रविश्य स नपा
। सुभद्रा
लोत्सवः ॥३
संकथाः। भटानां विकटाटोपां, वाचमाकर्णयन च ॥ ३७८ ॥ न चाश्वानां पुरः कीर्ण, ददर्श यवसोत्करम् । सिन्धुराणां विधापिण्ड-प्रदानादि न चैक्षत ॥ ३७९ ॥ शून्यारण्यनिभां लोक-संकुलामपि तां चमूम् । वीक्ष्यात्मजन्मनो मृत्यु-माशशङ्के कपिध्वजः ॥ ३८० ॥ बलादानन्दमुच्छेद्य, संसप्तकवधोद्भवम् । तस्यास्तोकः पदं शोकः, सूत्रयामास मानसे ॥ ३८१ ॥ प्रविश्य स नृपावासं, ततोऽपृच्छत्तपःसुतम् । सोऽप्येतस्मै यथावृत्तं, युद्धोदन्तं न्यवेदयत् ॥ ३८२ ॥ ततः शुद्धान्तमाविश्य, शोकवीचिमलिम्लुचैः। सुभद्रां वचनैस्तैस्तैः, सान्त्वयित्वा धनंजयः ।। ३८३ ।। अवोचदन्तवत्नीयमुत्तरास्ति स्नुषा तव । तत्सुतो भवितेदानी-मावयोनयनोत्सवः ॥ ३८४ ।। (युग्मम् ) प्रत्यश्रौषीच चेत् प्रात-रादिनान्ताजयद्रथम् । त्वत्पुत्रमृत्युहेतुं नो, हन्मि वहिं विशामि तत् ॥ ३८५ ॥ अथौर्ध्वदेहिकं सूनो-स्ते समाप्य विशश्रमुः। शोच्याः किं नाम वीराणां, रणार्जितसुरश्रियः ॥ ३८६॥
प्रातद्रोणोऽथ विज्ञाय, तां प्रतिज्ञां किरीटिनः । विकीर्णहृदयस्तूर्ण-मागत्य समरावनौ ॥३८७॥ प्राणत्राणकृतेऽनेकराजन्यकतिरोहिते । सैन्धवं शकटव्यूह-सूचीपाशे न्यवेशयत् ॥ ३८८ ।। (युग्मम् ) पाण्डवा अपि कोदण्ड-टंकारध्वनिडम्बरैः । क्षोभयन्तो विपक्षौघं, रणक्षोणिमुपागमन् ॥ ३८९ ॥ अन्योन्यस्खलनादर-मुच्छलन्तो नभस्तले । उभयेऽपि शरा
श्रेलुः, प्राक्प्रत्यञ्च इवानिलाः ॥ ३९० ॥ अथ द्रोणस्य जिष्णोश्च, विजेतुमनसोरपि । व्याप्रियेतां करौ स्नेहा-न बाणे| वितरेतरम् ॥ ३९१ ॥ द्रोणं प्रदक्षिणीकृत्य, ततो व्यूहं विवेश तम् । जिष्णुर्विन्ध्याद्रिकान्तार-मारण्यक इव द्विपः ॥३९२॥
१ विधा-हस्तिभक्ष्यान्नम् । २ गर्भिणी । ३ जयद्रथम् ।
For Personal & Private Use Only
www.sainelibrary.org