________________
144
श्रीपाण्डव चरित्रम् ॥ सर्गः १३॥ ॥२३४॥
सस्यौधै-स्तीव्रताप इवानलः ॥ ३६२ ।। तान् विक्षिप्य क्षिणोति स्म, लक्ष्मणप्रभृतीनसौ । बहून् कुमारान् दुष्कर्म-महिमेव | मनोरथान् ।। ३६३ ॥ अथैनं दुर्जयं ज्ञात्वा, कौरवानीकनायकाः । तुल्यमावारिषुः सर्वे, कोलं कौलेयका इव ॥ ३६४ ॥ तमेकमपि तेऽभूव-जेतुं विश्वेऽपि नेश्वराः । शृगाला इव शार्दूलं, तरणिं तारका इव ॥ ३६५॥ तस्यादलयदिष्वास-मङ्गेशः सारथिं कृपः । कृतवर्मा रथं सोऽथ, युयुधे खड्गचर्मभृत् ।। ३६६ ॥ तस्य द्रौणिः क्षणात् कोप-हव्यवाहस्य दीव्यतः। धूमदण्डनिभ काण्डै-मण्डलायमखण्डयत् ।। ३६७ ॥ स्वकीर्तिकलमक्षेत्र-तृणस्तम्बोपमांस्ततः । चक्रेण राजचक्रस्य, मौलीनभ्युद्दधार सः ॥ ३६८ ॥ इत्यनेकायुधैर्युद्धं, कुर्वन् कोपात् पिपेष सः । गदादम्भोलिना शैल-निभं दौशासने रथम् ॥ ३६९ ।। युध्यमानस्ततस्तेन, दुःशासनसुतेन सः । प्रजहे हियमुत्सृज्य, समं सर्वैर्महारथैः ।। ३७० ॥ इति नानास्त्रसंपात-जर्जरीकृतविग्रहः । पपात स भुवः पृष्ठे, छिन्नमूल इव दुमः ॥ ३७१ ॥ मृतमारणदौरात्म्यात् , स्वकीर्तिलतया समम् । ततो दौःशासनिस्तस्य, निस्त्रिंशेनाच्छिनच्छिरः ॥३७२।। तत्तदानीं द्वयोः कर्म, पश्यतां नाकिनामभूत् । मुखेषु साधुवादस्य, हानादस्य च संकरः ।। ३७३ ॥ तदानीं चार्जुनेः शौर्य-संतुष्टः पुष्पवृष्टये । पुष्पाणि रविरुच्चेतु-मिवास्ताद्रिवनं ययौ ।।। ३७४ ॥ अवहारे प्रतीहार-पूरुपैर्विहिते ततः । ते उभे अप्यनीकिन्यौ, स्वं स्वं शिविरमीयतुः॥ ३७५ ॥
त्रैगर्तान् स्वभुजावते, कीर्तिशेषानथार्जुनः । निर्माय यावदागच्छ-च्छिबिरं तनयोत्सुकः ॥ ३७६ ।। तावदेशिष्ट तत्सर्व, निमग्नं शोकसागरे । मनःकदनमाक्रन्द-ध्वनि चान्तःपुरेऽशृणोत् ॥ ३७७॥ न चापि क्वचिदोषी-द्वीराणां रण
१ 'इवानिलः' एकप्रतिपाठः साधुः । २ वराहम् । ३ दुःशासनपुत्रस्य ।
||२३४॥
For Pro & PvUse Only