________________
143
मुखात् कस्यचिदश्रौष-महं गोविन्दसंसदि । प्रवेशं केवलं चक्र-व्यूहस्य न तु निर्गमम् ॥ ३४८ ॥ (युग्मम् ) भाषते स्म ततो भीम-स्तत् कृतं शङ्कयाऽधुना । त्रैगर्त विजये प्रात-गतेऽपि प्लवगध्वजे ॥ ३४९ ॥ चत्वारोऽपि वयं सर्वा-निर्भिद्य प्रसभं भटान् । मार्गमासूत्रयिष्यामो, निर्गमाय बलादपि ॥ ३५० ॥ (युग्मम् ) इत्यालोच्य ततः सर्वे, पाण्डवाः सपरिच्छदाः । विश्रमाय रणश्रान्ताः, स्थानं जग्मुर्निजं निजम् ।। ३५१ ॥ प्रातर्जिष्णुस्तपासूनु-अभिमन्युं च रक्षितुम् । नियुज्य कामं भीमादीन् , संसप्तकजये ययौ ॥ ३५२ ॥ ___एत्य द्रोणो रणक्षेत्र, धर्मजूतेजिघृक्षया । चक्रे संसारचक्राभं, चक्रव्यूहं दुरुत्तरम् ॥ ३५३ ।। पाण्डवा अपि निःशेषरभिमन्युपुरःसरैः । साधं धनुर्धरैयुद्ध-धरित्रीमध्यरत ॥ ३५४ ॥ रक्तपाटलविस्फूर्ज-च्छिलीमुखकुलाकुलः । प्रवीरजीवनग्रीष्मः, समरः सैन्ययोरभूत् ॥ ३५५ ॥ अभिमन्यु पुरोधाय, चत्वारोऽप्यथ पाण्डवाः । सौष्ठवेनोदतिष्ठन्त, कल्पान्तमिव सागराः ॥ ३५६ ॥ ते यमा इव पश्चापि, द्रोणं निर्जित्य कर्मवत् । दुर्भेदं विभिदुश्चक्र-व्यूहं संसारचक्रवत् ।। ३५७ ॥ क्षान्त्यादिभिः फलोदः, कपायानिव संयमी । पाण्डवांश्चतुरोऽरौत्सीत् , कङ्कपत्रैर्जयद्रथः ॥ ३५८ ॥ समन्युरभिमन्युस्तु, निस्तुषोत्साहसाहसः । तं व्यूहमविशद्भीष्मं, पातालविवरोपमम् ॥ ३५९ ।। निहन्ति स्म स एकोऽपि, कोटिशः सुभटान् रणे । उद्वेलो हि महाम्भोधिः, सर्वान् प्लावयते गिरीन् ॥ ३६० ॥ तस्यैकधन्विनो भृपाः, रैर्विव्यथिरेऽधिकम् । अकालजलवाहस्य, सलिलैरिव शालयः ॥ ३६१ ॥ शल्य-कर्ण-कृप-द्रौणि-कृतवर्म-सुयोधनैः । स नामयत
१ जीवन-प्राणः, पक्षे जलम् । २ यमाः-प्राणातिपातविरत्यादयः ।
Jain Educati
o
nal
For Personal & Private Use Only
Jawlinelibrary.org