SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ 142 मी पाण्डव सर्गः १३ ॥ नूचेलुः, फाल्गुनस्य शिलीमुखाः ॥ ३३२ ॥ निष्पुण्यक इवोतुङ्ग-मर्थं प्रति मनोरथम् । भगदत्तोऽपि तं नाग-मन्त्रचरित्रम् ||र्जुनमनोदयत् ।। ३३३ || महातिमिरिवाम्भोधि-महोर्मिमतिभैरवम् । तमायान्तमिमं पार्थः, क्षुरप्रैर्विदधे द्विधा ॥ ३३४ ॥ दर्शयन् भगदत्तोऽथ, महामात्रकलां निजाम् । ऊरुभ्यां गाढमाक्रम्य, क्रमयामास तं बलात् ॥ ३३५ ॥ तथैव प्रथयन् सैन्य-संमर्दमतिदुर्दमः । किरीटिनमनु क्रोधा - ततोऽघावत्स सिन्धुरः || ३३६ ॥ तदा तेनावेदानेन, सानन्दमनसोऽमुचन् । दिवौकसो दिवः पुष्प-वर्षं प्राग्ज्योतिषेश्वरे || ३३७ || तत्तस्मिन्नपतत् पश्चाद्भगदत्ते महीपतौ । पूर्वमेवेषुवर्षं तु पतति स्म किरीटिनः || ३३८ || हियन्ते स्म क्षणात् प्राणा- स्तेन प्राग्ज्योतिषेशितुः । वारिवर्पेण कासारस्येव राजीवराजयः ॥ ३३९ ॥ हते सकुञ्जरे तस्मि - ञ्जिष्णुना राजकुञ्जरे । कौरवीयबले राज्ञां शृङ्गभङ्ग इवाभवत् || ३४० || दयालब इव प्राणि-कदम्बकदने तदा । दिक्पुरं यः प्रणुद्योच्चै - निन्युरस्तगिरौ रविम् || ३४१ ॥ ॥२३३॥ द्रोणोऽथ पाण्डवानीका - व्यावृत्य स्वबलं ययौ । सरित्प्रवाहतो वेला - जलौघ इव सागरम् || ३४२ || प्रतिषिद्धे ततो युद्ध-संरम्भे वेत्रपाणिभिः । वरूथिन्यावुभे स्वं स्वं स्कन्धावारमुपेयतुः ॥ ३४३ ।। मध्यरात्रे ततः पाण्डुपुत्राणां गूडपूरुषाः । अभ्येत्य कौरवानीक - किंवदन्तीमचीकथन् ॥ ३४४ ॥ भगदत्तवधक्रुद्धो, भारद्वाजो गुरुः प्रगे । चक्रव्यूहं तपः सूनु-मादातुं रचयिष्यति ।। ३४५ || चरवाचमिति श्रुत्वा चक्रव्यूहभिदाविधिम् । सर्वैरालोचयां चक्रुः, पार्षदैः सह पाण्डवाः || ३४६ || अभिमन्युरथावादी दार्जुनिर्महिमोर्जितः। द्वारकायां पुरा तिष्ठन् प्रवासे वः पुरान्निजात् ॥ ३४७ ॥ १ पराक्रमेण । Jain Educat tional For Personal & Private Use Only युद्ध वर्णनम् ॥ ॥२३३॥ Binelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy