________________
141
-
सुप्रतीकद्विपारूढो, भगदत्तक्षितीश्वरः । तमन्वविशदादित्य-मिवोदयोतो बलार्णवे ॥ ३१८ ।। सेनान्तर्दियुते मुश्चन् , विष्वद्रीचः शरान् गुरुः । विवस्वानिव मध्याहे, तन्वन्मध्येऽम्बरं करान् ॥ ३१९ ॥
करेणाथ हठात्क्रान्ता, भगदत्तस्य दन्तिना । वाहिनी सा नवोढेव, काममाकुलतामगात् ॥ ३२० ॥ जीवतोऽप्सरसां दातु-मिवाभिगगनाङ्गगम् । कानप्यभिमुखान् वीरान् , स करेणोदलालयत् ।। ३२१ ॥ नानाभटशवाकीर्णे, तस्य संचरतो
रणे । कीकसौपकडत्काराः, कक्षानादानिरासिरे ॥ ३२२ ॥ सर्पत्सारिपक्षान्त-बातोद्धृतद्रुमोपमाः । गर्जितैः परितो नेशुVIर्धावन्तस्तस्य सैन्धवाः ॥ ३२३ ॥ भञ्जति प्रसभं तस्मिन् , भयादिव पलायितैः । उड्डीनै रथकट्यानां, यातं दूरे ध्वजांशुकैः
॥ ३२४ ॥ तस्मिन्नीरधरध्वान-धीरबंहितशालिनि । केषांचित् करिणां चित्र-मशुष्यन् मदनिर्झराः ॥ ३२५ ॥ तेनाहतास्तथा केचि-चीत्कुर्वन्ति स्म दन्तिनः। जग्मुखासावं दुरां, यथाऽन्येऽवमताङ्कशाः ॥ ३२६ ॥ तेन केचन दन्ताग्र-प्रोतोत्क्षिप्ताः करेणवः । रेजुरद्रीन्द्रशृङ्गस्था-स्तोयदा इब नूतनाः ॥ ३२७ ॥ द्विषत्कीर्तिश्रवन्तीना-मादिशैला इवामुना । पातयांचक्रिरे | केचित् , प्रहृत्य द्विरदा रदैः ॥ ३२८ ॥
एवं पाण्डवसैन्यानां, तेन दुर्दान्तदन्तिना । शुश्राव मृद्यमानानां, दादाक्रन्दमर्जुनः ॥३२९ ।। हतशेषान् परित्यज्य, ततः संसप्तकान् युधि । अन्धंभूष्णुः क्रुधा कामं, दधावे वानरध्वजः ॥ ३३० ॥ तं ततो निशितैर्वाणैः, समातङ्गमतल्लिकाम् । साग्रहः प्रतिजग्राह, जिष्णुः प्राग्ज्योतिषेश्वरम् ।। ३३१ ॥ नवोन्मीलन्मदासार-पानैकस्पृहयालवः । तं महेभम
१ 'वरेणा०' प्रतिद्वय० । २ कक्षा-हस्तिबन्धनरज्जुः (शङ्खला ) तस्या नादान् । ३ रथानां समूहो रथकट्या ।
For Persona & Private Use Only
www.jainelibrary.org