________________
147
धिमिव मन्दरे । कल्लोलानामिवोत्तस्थौ, लोकानां तुमुलो महान् ॥ ४०८ ॥ इतश्चाक्रम्य केशेषु, गृहीत्वा सात्यकेः शिरः । खङ्गेनाच्छेत्तुमुद्यच्छ-माने भूरिश्रवोभुजे ॥४०९ ॥ कैटभारिरभाषिष्ट, धनंजय ! धनंजय ! | म्रियते म्रियते हन्त, पश्यतस्तव सात्यकिः ॥ ४१०॥ छिन्धि छिन्धि शरैरेनं, तभूरिश्रवसो भुजम् । वीरमानिभिरात्मीय-खातव्यो हि यथा तथा ॥ ४११ ॥ (त्रिभिर्विशेषकम् ) तदानीमंशुमन्तं च, नमन्तं ददृशुः समम् । पार्थ-कौरवयोः कोक-कौशिका इव
सैनिकाः ॥ ४१२ ॥ तस्मिंश्च समये सव्य-साची साँचीकृताननः । समं समापतत्कृत्य-व्यग्रत्वादित्यचिन्तयत् ।। ४१३ ।। NI इतो राजान्तिके यान-मितः सिन्धुपतेर्वधः। इतोऽपि सात्यकेवाण-मितश्चास्तोत्सुको रविः ॥ ४१४ ॥ इति चिन्ता
तुरो भूयः, प्रणुनः शौरिणाऽर्जुनः । चिच्छेद भूरिश्रवसः, सकृपाणं शरैः करम् ॥ ४१५ ॥ अक्षत्राद्दक्षिणे छिन्ने, करतामरसे ततः । सकोपैर्वचनैस्तैस्तै-रुपालभ्य कपिध्वजम् ॥ ४१६ ॥ निष्कामयन्तमभ्यासा-ब्रह्मद्वारेण मारुतम् । भूरिश्रवसमुत्थाय, स्वैरं हन्ति स्म सात्यकिः ।। ४१७ ।। (युग्मम् )
कर्णजाहमनारोह-त्यर्जुने जलजध्वनौ । धर्मजन्मा पुनीम, प्राहिणोत्तत्प्रवृत्तये ॥ ४१८ ॥ विद्राणवाजिनं द्रोणरथमुत्क्षिप्य तत्क्षणात् । विवेश मारुतिव्यूह, समूहन भटमण्डलीम् ।। ४१९ ॥ नवाम्बुवाहमायान्तं, प्रतिकूल इवानिलः । कर्णः कर्णान्तिकानीत-नाराचस्तमचिस्खलत् ॥ ४२० ॥ कुर्वाणी रणमुत्सर्पि-मत्सरौ रेजतुस्तदा । सह्य-विन्ध्याविवोत्तुङ्गा| वनेश-पवनाङ्गजो ॥ ४२१ ॥ पौरुषं पुरुषस्येव, दुर्बुद्धया विमुखो विधिः । कर्णस्य गदया भीमो, निर्ममन्थ वरूथि
१ माचि-वक्रम् । २ अन्यायात् । ३ प्राणवायुम् । ४ रथम् ।
SPO
www.dhelibrary.org