SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ 139 द्वयानामपि वीराणां, प्रेडन्ति स्म शिलीमुखाः ॥ २८९ ।। (युग्मम् ) शरैः शिरसि लूनेऽपि, कयोरप्येकहेलया । कबन्धावप्ययुध्येतां, तथैव कुपितौ मिथः ॥ २९० ॥ समं निस्त्रिंशनिस्त्रिंश-घातोच्छलितसंगते । कयोश्चिच्छिरसी व्योम्नि, दन्तादन्ति वितेनतुः ॥ २९१ ॥ कश्चिन्मौलौ विलूनेऽपि, वैरिणा तरवारिणा । सकृपाणे पुनः पाणौ, पातिते व्यरमद्रणात् ॥ २९२ ।। हते प्रसभमात्मीय-कबन्धेन विरोधिनि । कस्याप्यहसदुत्फुल्ल-नेत्रमाल्हादतः शिरः ।। २९३ ॥ केषांचिदरमुतैः, पतितेभनिपातिभिः । । बभूवे मौलिभिः सभ्यैः, क्रीडतामसिमभिः ॥ २९४ ॥ प्रेलिताभिः शरैयोम्नि, पतन्तीभिरिभैः पुनः । प्रेवयद्भिः करैर्मुनि, भस्त्रिकाभिरदीव्यत ।। २९५ ॥ पर्यणंसीत् करी कश्चित् , कस्मिन्नप्युद्भटे भटे । अन्येषामीपदारोहोऽभववैविधैषिणाम् ॥ २९६ ॥ आत्माधिको गुरुः पश्यन् , धनंजयधनुष्कलाम् । आचार्यान्तरसंस्कारं, भृशं तस्मिन्नशङ्कत ।। २९७ ॥ अर्जुनोऽपि गुरोर्वीक्ष्य, चापविद्याऽनवद्यताम् । कलारोपमसाकल्यात् , क्षाममात्मन्यमन्यत ॥ २९८ ॥ शोणितारुणितैः शस्त्र-व्रणौधैरनुचक्रतुः । उभे अपि बले बाद, फुल्लं कङ्केल्लिकाननम् ॥ २९९ ॥ अथ संध्या व्यतीतेऽह्नि, कौसुम्भाम्बरधारिणी । रिरंसुस्तत्र जेतारं, जयलक्ष्मीरिवागमत् ।। ३०० ।। अवहारं विधायाथ, वरूथिन्यावुभे अपि । जग्मतुः शिबिरं स्वस्व-ममन्दितमदे मिथः ।। ३०१ ॥ अथ धर्मजगोतारं, निशि कौरव्यशासनात् । संसप्तकाख्यास्त्रैगेर्ता, भूभुजोऽभ्येयुरर्जुनम् ॥ ३०२॥ व्याहरन्ति स्म. बा १ मुध्धूतेः' प्रत्यन्तर० । २ कृतज्ञैः । ३ ' चर्मभिः' प्रतिद्वय० । ४ “खन्तीभिः शरैर्योम्नः" प्रत्यन्तः । 'मूर्ध-भस्त्रि.' प्रत्यन्तरपाठः साधुः । ५ त्रिगर्तो नाम देशः । in Education Interational For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy