________________
137
ध्रुवः ॥२५९ ॥ तत्तवार्पयितुं न्याय्यं, राज्यं ज्येष्ठे युधिष्ठिरे । स्वयं पूर्वमिव स्थातु-मिन्द्रप्रस्थे तु युज्यते ॥ २६० ॥ उत्सार्य परतः किंचि-जनमासनवर्तिनम् । कौरवेश्वरमेकान्ते, गाङ्गेयः पुनरभ्यधात् ।। २६१॥ वत्स ! पाडण्यचिन्तायामपि संधिस्तवोचितः । विग्रहं हि निषिध्यन्ति, बुधाः साधं बलाधिकैः ॥ २६२ ॥ तेषु तेषु समीकेषु, शैशवात् प्रभृति त्वया । बहुकृत्वः समालोकि, बलं भीम-किरीटिनोः ॥ २६३ ॥ नीतिमान्नतिमानेव, संजायेत बलीयसि । धावमाने धुनीपूरे, नमनन्दति वेतसः ।। २६४ ॥ व्याजेन दर्शितेदानी, पार्थचापकला तव । ममोपधान-पानेच्छा, त्यक्तदेहस्य का पुनः १॥ २६५ ।। तदद्यापि तपासूनोः, श्रियं प्रत्यर्पय स्वयम् । रक्ष रक्ष विशेषज्ञ!, शेषराजन्यकक्षयम् ।। २६६ ।। इत्युक्तस्त्यक्तमर्यादः, सुदुर्बोधः सुयोधनः । वर्धमानमनःसादः, समादत्त शनैर्वचः ॥ २६७ ।। अन्तरेण रणं तात !, पाण्डवेभ्यो ध्रुवं मम । मनो नखशिखामात्रा-मपि धात्री न दित्सति ॥ २६८ ॥ उच्छलन्मत्सरोत्सेक-पिच्छलामिति भारतीम् । श्रुत्वा दौर्योधनी दूरं, यते स पितामहः ॥ २६९ ॥ ____ अथासौ निश्वसन्नुच्चै-विभाव्य भवितव्यताम् । संभाष्य धृतराष्ट्रादि-ज्ञातिवर्ग पृथक्पृथक् ।। २७० ।। भरताधपति(त्वा, हरे! शासनमार्हतम् । प्रभावयेः प्रकारैस्तै-स्तैरित्याशास्य केशवम् ॥ २७१ ॥ आलोच्य पापकर्माणि, स्वादयन् समतामृतम् । श्रीभद्रगुप्तसूरीणा-मन्तिके व्रतमाददे ॥ २७२ ॥ (त्रिभिर्विशेषकम् ) ज्ञानचक्रेण मिथ्यात्व-दण्डनाथमथोन्मथन् । भिन्दानः समताशक्त्या, राग-द्वेषमतङ्गजौ ।। २७३ ।। ध्यानकुन्तेन दुर्दान्ता-निन्द्रियाश्वानुपद्रवन् । क्रोधादियोधसंघातं, निनन् बाणैः श(क्ष)मादिभिः ॥ २७४ ।। श्रद्धासंनद्धसर्वाङ्गो, गाङ्गायनिमुनिस्ततः । संग्रामयितुमारेमे, मोहराजेन
For Personal
Private Use Only
Warmidainelibrary.org