________________
पाण्डव रित्रम् ॥
मीप्मवृत्तान्तः॥
:१३॥
२३०॥
136 स्पृहयालुताम् ।। २४४ ॥ ततस्ते चिन्तयामासु-रीगम्भोऽतिदुर्लभम् । यतस्तन्मानसा-च्छोद-प्रभृतिष्वप्यसंभवि ॥ २४५॥ इति किंकार्यतामूढान् , बाढमालोक्य तांस्तदा । भीष्मोक्षिपदृशं पार्थ-मुखे पीयूषवर्षिणीम् ॥२४६॥ विज्ञाय तदभिप्राय, सोऽपि शस्त्रास्त्रकोविदः । मण्डलीकृत्य कोदण्डं, संदधे वारुणं शरम् ॥ २४७॥ उद्यदानन्दगोविन्द-दृष्टिपातपवित्रितः। यदैवापातयत् पार्थ-स्तद्विच्छेदमधोमुखम् ॥ २४८ ॥ स्वच्छां तदैव तत्कीर्ति-त्रिस्रोतःस्रोतमः सखीम् । सर्वेऽप्यैक्षन्त निर्यान्ती, वारिधारां धरातलात् ।। २४९ ॥ (युग्मम् ) पाण्डवानां कुरूणां च, दृष्टिपातैः सितासितैः। जाह्नवी-यमुनासङ्ग-भङ्गिमङ्गीचकार सा ॥ २५० ॥ ततस्तत्तोयमादाय, किरीटी भीष्ममभ्यगात् । सोऽपि नेत्रपुटैः पीत्वा, प्रीतः पार्थमभाषत ।। २५१ ॥ वारीदमानयन्नेव, तृष्णां त्वं वत्स! मेऽच्छिदः । रोचिरुल्लासयन्नेव, कोकस्येव शुचं रविः ॥ २५२ ॥ तनिषीद सुखं वत्स !, ज्यायसो भ्रातुरन्तिके । एभिश्च विजयी भृयाः, स्वगुणैर्भुवनातिगैः ।। २५३ ॥
दुर्योधनमथोवाच, हितां वाचं पितामहः । पार्थावदानतस्तस्य, म्लानमुन्नमयन्मुखम् ।। २५४ ॥ अस्मिन् कुरुकुले जन्म, वत्स ! पुण्यैरवाप्यते । अनुत्तरेषु संभृति-न सम्यग्दर्शनं विना ॥ २५५ ।। एतत्कुलोचिता एव, विस्फुरन्ति गुणास्त्वयि । सुरसिन्धुसरोजानां, व्यभिचारि न सौरभम् ।। २५६ ।। तथापि वत्स! वात्सल्या-दिदानी किंचिदुच्यसे । विनयं च नयं चापि, गुणावेतौ पुरस्कुरु ॥ २५७ ॥ विनयो विनयाhषु, कीर्तिमावहते पराम् । रामे नम्रस्य सौमित्रः, पश्याद्यापि कियद्यशः ? ॥ २५८ ॥ क्रमानतिक्रमः कस्य, न स्यादुदयहेतवे ? । क्रमेण कामतां पश्य, ज्योतिषामुदयो
१ अच्छोदं-सरोविशेषः । २ 'वाप्रथयत्' प्रत्यन्तर० । ३ गङ्गाप्रवाहस्य । ४ अर्जुनपराक्रमात् ।
al॥२३॥
Jain Education International
For Personal & Private Use Only
S
ainelibrary.org