SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम् ॥ : १३ ॥ २२८॥ 132 कारपराक्रमैः । भीमप्रभृतिभिः सद्यो, निन्यिरे विशेरारुताम् ॥ १८५ ॥ ( युग्मम् ) पताकापल्लवैर्वायु- वेल्लितैः सत्र्यसाचिनम् । नोदयन्निव नाराच - मुक्तयेऽभात्तदा रथः ।। १८६ ॥ सहैव त्रपया भक्त्या, स्नेहेन च पितामहे । गाण्डीवधन्वना काण्ड - मण्डली मुमुचे ततः ॥ १८७ ॥ शिखण्डिरचितान्तर्धि-मपश्यन् कपिकेतनम् । गाङ्गेयो दक्षिणेर्माङ्गस्तदा तमवोचत ।। १८८ ॥ कामं मर्माविधो वर्म-च्छेदकर्मणि कर्मठाः । वेगादच्छिन्नसंतान - पातिनः सरलक्रियाः ॥ १८९ ॥ अलक्ष्यगतयो लक्ष्य-भेदमेदुरितौजसः । कुर्वन्तो विद्युदुद्योत - लेखां पुङ्खैर्हिरण्मयैः ॥ १९० ॥ सुरा इव सुपर्वाणः, सत्फलाः शुभकर्मवत् । अवश्यमर्जुनस्यैते, विशिखा न शिखण्डिनः ॥ १९१ ।। (त्रिभिर्विशेषकम् ) वत्सस्यास्य धनुर्विद्या - मद्यानुभवतः स्वयम् । जीवतीवान्तरात्माऽयं, मृत्युकोटिगतोऽपि मे ।। १९२ ।। अत्रान्तरेऽन्तरिक्षान्त - रुल्ललास सरस्वती । मा स्म विस्मर गाङ्गेय !, गिरं गुरुसमीरिताम् ॥ १९३ ॥ अथ दुर्योधनोऽभ्येत्य, भीष्मं पप्रच्छ विस्मितः । कामेते खेचरास्तात !, स्मरयन्ति गुरोर्गिरम् ॥ १९४ ॥ अथ गाङ्गायनिः प्राह मातामहगृहे वसन् । चारणश्रमणान् बाल्ये, मात्रा सममनंसिषम् ।। १९५ ।। विशुद्धं साधुधर्मं च श्राद्धधर्मं च मे पुरः । व्याकुर्वन् कुरुराजेन्द्र !, मुनीन्द्रास्ते कृपालवः ॥ १९६ ॥ धर्मस्योपनिषत्तेभ्यो, बभूव हृदयंगमा । तथा मम यथाकामं, कामोऽभून्नार्थकामयोः ॥ १९७ ॥ ततः प्रभृति पश्यामि, भूतसंघातमात्मवत् । वाचं वाचंयम इव, ब्रुवे सत्यपवित्रिताम् ।। १९८ ॥ परवित्तेषु मे चित्तं सर्वथाऽभूत् पराङ्मुखम् । अजिह्मब्रह्ममनसः सर्व स्त्रैणं तृणं मम ॥ १९९ ॥ १ विशीर्णताम् । Jain Educational For Personal & Private Use Only युद्धम् ॥ ॥२२८॥ helibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy