SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ 331 भीष्म-रथस्याभूत पुरो रणे ॥ १६९ ॥ शिखण्डिनमनूदण्डं, धावन्तो धन्विनः परे । वृकोदर-किरीटिभ्यां, नाराचैः प्रतिचक्रिरे ॥ १७० ॥ पुरोऽवलोक्य कोदण्ड-चण्डपाणिं शिखण्डिनम् । बभूव रणसंरम्भ-मन्दो मन्दाकिनीसुतः। ॥ १७१ ॥ कोटिशो भटसंभार-संहारविहितश्रमम् । धनुर्विश्रमयांचक्रे, कृपयेव पितामहः ॥ १७२ ॥ हैमन्तिक इवादित्यो, मन्त्रस्तब्ध इवानलः । जरीव हरिणाराति-र्गाङ्गेयो ददृशे तदा ॥ १७३ ॥ ततः शिखण्डिना काण्डै-भीष्मः स्वैरमताड्यत । गजो गम्भीरवेदीव, न किंचित्तु विवेद सः॥ १७४ ।। एतस्मिन्नन्तरे हृष्टा, धृष्टद्युम्नादयोऽपि तम् । सर्वे सर्वाभिसारेण, शरासारैरताडयन् ॥ १७५ ॥ प्रहारदारुणानेतान् , वीक्ष्य गङ्गासुतस्ततः। कोपकम्प्राधरश्चापे, रोपमारोपयत् पुनः ॥ १७६ ॥ तच्चक्ररक्षिणौ दुर्यो-धन-दुःशासनावपि । समं ववृषतुर्वेगा-द्वाणैः प्राणैकभिक्षुभिः ॥१७७ ॥ न दिशो विदिशो नापि, नाकाशं न च काश्यपी । आलोकि केवलं लोकः, शराद्वैतमयं जगत् ॥ १७८ ॥ ससंभ्रममथाजल्पत , कपिकेतुं वृषाकपिः । कथं वृथा पृथासूनो! सैन्यक्षयमुपेक्षसे? ॥ १७९ ॥ शिखण्डिना तिरोधाना-मानयित्वा त्रपामपि । तत् कुरुश्रीलतामूलं, भीष्ममुन्मूलय स्वयम् ।। १८० ॥ कथंचिदमुमादृत्य, निदेशं मञ्जुकेशिनः । शिवण्डिरथमारोहत् , ततः प्लवगकेतनः ॥ १८१ ॥ शिग्वण्डिवपुषा गुप्त-मूर्तिनाऽथ किरीटिना । इष्वासश्चकृषे कर्ण-प्रान्तविश्रान्तमुष्टिना ॥ १८२ ॥ अनिमेषा अपि दृशः, समुन्मेपयतां भृशम् । बभूव रभसोत्तालो, देवानां तुमुलस्तदा ॥ १८३ ॥ मातण्डमण्डलं पूर्व-वार्षिका इव वारिदाः । तिरयन्तोऽन्तरा भीष्म-रथं दुर्योधनादयः ।। १८४ ॥ वातूलैरिव दिङ्मूल-केलि १ 'प्रहारान् दारु०' प्रतिद्वय० । २ बाणम् । ३ वायुसमूहैः । JainEducationaries For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy