SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पाण्डव रित्रम्॥ :१३॥ २२७|| 130 अथ प्रातः पुरोधाय, तेऽपि चण्डं शिवण्डिनम् । संग्रामानमुपागच्छन् , गाङ्गेयवधवाञ्छया ॥१५४॥ बभौ भीमकिरीटिभ्यां, गताभ्यां चक्ररक्षिताम् । शिग्वण्डी चण्डरश्मीन्दु-मध्ये बुध इव स्थितः ॥ १५५ ॥ मिथः सायकसंपातखाद्वारमुखराम्बरम् । आत्यन्तिकमभूद्युद्ध-मुभयोरप्यनीकयोः॥ १५६ ॥ द्विपानामपनीतास्या-वरणानामपि क्षणात् । पांसवः स्पन्दनोद्धता, मुखप्रच्छदतां ययुः ॥ १५७ ॥ अन्योऽन्यरदनाघात-जातः कार्शानवैः कणैः । अयुध्यन्तान्तरं तेजो, वमन्त इव दन्तिनः ॥ १५८ ॥ दन्तिनो दन्तदम्भोलि-संघट्टघटितैर्मियः। प्लुष्येते स्म शिखिज्वाला-कलापैरास्य-कर्कटौ ॥ १५९ ॥ केनापि करिणोत्क्षिप्ते, रथाग्रे पृथिवीं ययौ । रथी समारथी रथ्या, योक्त्रबद्धा ललम्बिरे ॥१६० ।। कुन्तैर्द्धमुदस्ताङ्गाः, सादिभिः प्रतिसादिनः । वंशाग्रगतशैलूष-केलिमाकलयन् मुहुः ॥ १६१॥ न वर्मिणैर्न रथ्याभि- श्वीयैर्न च । हास्तिकैः। रेवापूर इव क्वापि, कोऽपि सादी न चस्खले ॥ १६२ । एकैव विविदे मुष्टिः, कर्णजाहविगाहिनी । भटैः पतद्भिः केषांचि-दिषुमोक्षस्तु लक्षशः ।। १६३ ॥ कस्यापि रथिनः क्रोधा-द्धावतोऽनुविरोधिनम् । आसीदुरुत्तरा रक्त-निमग्नैवान्तरार्गला ॥ १६४ ॥ कांश्चिञ्जर्जरयन् कांश्चित् , समरादपमारयन् । कांश्चित् पिंपन्निपुत्रातै-युध्यते स्म पितामहः ॥ १६५ ॥ न तस्य भेजिरे वैरि-श्रेणयः संमुखीनताम् । तरूणामापराह्निक्य-श्छाया इव विवस्वतः ॥ १६६ ॥ केचिद्विपंतपैीष्मसायकैराकुलीकृताः । क्षिपन्ति स्म परासूनां, दन्तिनामन्तरे रथान् ॥ १६७ ॥ अनीके प्रत्यनीकानां, कामं विमुखतां गते । भीष्मस्य समरेऽतिष्ठ-दव्यापारः करश्चिरम् ।। १६८ ॥ राकेन्दुमन्डलं भानु-बिम्बस्येवाम्बरे ततः । शिखण्डिस्यन्दनो १ अग्निसंबन्धिभिः । २ कङ्कट:-कवचः । ॥२२७॥ Jain Education International For Personal & Private Use Only M.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy