________________
१२५
याव-नोति प्रधने धनुः । दरेऽस्तु विजयस्ताव-जीविताशाऽपि नश्वरी ॥ १३९ ।। संवर्मयति हि ध्वान्त-ध्वजिन्यां नव-|| नीरदे । कः प्रकाशस्तुषारांशो-रस्तित्वेऽपि हि संशयः ॥१४०॥ तदैदंकालिकं किंचित् , कर्तव्यमुपदिश्यताम् । संशय्य तिष्ठते यस्मा-युष्मास्वेव मनो मम ॥ १४१ ।। ततः कंसान्तकोऽवोच-ननु मन्दाकिनीसुतम् । संग्रामेऽद्यतने काम, संहरन्तं धराधवान् ॥ १४२ ॥ स्वयमेव क्रुधा हन्तुं, बाहुरुत्सहते स्म मे । किं पुनः शपथैस्तैस्तै, रुरोध प्लवगध्वजः॥१४३ ॥ (युग्मम् ) इदानीमपि निःशङ्क-मनुजानीथ मां यदि । करोमि तदिदं प्रात-निर्गाङ्गेयमिलातलम् ॥ १४४ ॥ व्याजहाराथ भूनाथो, हरे! चापकरे त्वयि। रणतन्द्रालुरिन्द्रोऽपि, गङ्गासूनोस्तु का कथा ॥१४५॥ कीर्तयः किं तु गान्धारी-सुतवर्गवधोद्भवाः । प्रीतेन भवताऽस्मभ्यं, दक्षिणीचक्रिरे पुरा ॥ १४६ ॥ गाङ्गेयस्याङ्कपल्यङ्क-लालितौ बालकालतः । वधं विधित्सतः साक्षात् , कथं भीम-किरीटिनौ? ॥१४७॥ तदावेदय गोविन्द !, किंचिदौपयिकान्तरम् । येन जीयेत विश्वकरथी भागीरथीसुतः॥१४८॥ अथाह स्म हरिस्तर्हि, ममेदं श्रूयतां वचः। इदमाबालगोपालं, तावदस्त्येव विश्रुतम् ।।१४९॥ | स्त्रियां पूर्वस्त्रियां दीने, भीते पण्डे निरायुधे । यद्भीष्मस्य समीकेषु, न पतन्ति पतत्रिणः ।। १५० ॥ तत् प्रातद्रूपदोवीश-सुतं षण्डं शिखण्डिनम् । पुरस्कृत्योपतिष्ठध्वं, समराङ्गणसीमनि ॥ १५१ ॥ ततस्तस्मिन्नमुश्चन्तं, नाराचनिचयान् रणे । स हन्यानिशितैर्बाणै-रोपकार्णककर्षणैः ॥ १५२ ।। इत्युपायं परिज्ञाय, देशितं केशिवैरिणा । सर्वे निजं निजं स्थानं, ययुरुत्थाय हर्षलाः ॥ १५३ ॥
१ अन्धकाररूपसेनायाम् ।
Jain Educati
For Personal & Private Use Only
www.jainelibrary.org