________________
127
कुरुवरूथिन्या, धानुर्दण्डिकमण्डलीम् । कुर्वते स्म निरुच्छ्रासां, कौन्तेयबलधन्विनः ॥ ११० ॥ ( चतुर्भिः कलापकम् । ) दोर्मृतः सर्वतः केचिदाचिताङ्गाः शिलीमुखैः । शल्याकुलशरीरस्य, श्वाविधो दधिरे तुलाम् ॥ १११ ॥ मज्जत्तलिननाराचमण्डलव्याप्तमौलयः । बभ्रुर्युद्धरसोत्तब्ध - कुन्तला इव केचन ।। ११२ ।। वाणत्रणितसर्वाङ्गं कुरूणां तद्वलं बभौ । उद्बुद्धमिव बन्धूक - वनं जङ्गमतां गतम् ॥ ११३ ॥ तदानीं धन्विनां स्वैर-मुच्छलद्भिः शरोत्करैः । क्षुण्णः प्रेक्षकवन्मन्ये, वासरोऽप्यन्तमासदत् ॥ ११४ ॥ हतवत्यपि गाङ्गेये, महीपालान् सहस्रशः । हताभ्यधिकभूपालाः, सानन्दाः पाण्डुनन्दनाः ।। ११५ ।। कौरवाः पुनरुद्वेल - वैमनस्य महार्णवाः । अवहारे कृते जग्मुः, स्कन्धावारं निजं निजम् ॥ ११६ ॥ ( युग्मम् )
धार्तराष्ट्रस्ततो रात्रौ गाङ्गाय निमुपागमत् । प्रणिपत्योपविश्याग्रे, सोपालम्भमदोऽवदत् ॥ ११७ ॥ तात ! स्पष्टमवष्टम्भा - तव कार्मुककर्मणाम् । सर्वः पार्थविघातार्थ - मारम्भोऽयं ममाभवत् ।। ११८ ॥ को नाम हिममुच्छेत्तुं सूरोऽपि सुरंभि विना ? । कीदृशः काननं दग्धु-मग्निरप्यनिलाहते ? ॥ ११९ ॥ त्वं तु कौन्तेयदाक्षिण्यात्, संगरे तद्धनुर्धरैः । नित्यमास्माकवर्गीणान्, हन्यमानानुपेक्षसे ।। १२० ।। तेभ्योऽस्मदहितेभ्यश्चेद्, दातुं राज्यं तवेप्सितम् । तद्व्यापादय मां तात !, सद्यः स्वेनैव पाणिना ।। १२१ ॥ इत्यार्तभाषिणं भीष्मः कौरवाधीशमभ्यधात् । वत्स ! तुच्छोचितः कोऽय मुद्द्वारोऽय गिरां तव ? ।। १२२ ।। ज्ञातेयान्मे यदप्येत-च्चेतस्तेष्वपि वत्सलम् । तथापि त्वयि विक्रीतं, जीवितव्यमिदं मया ॥ १२३ ॥ त्वत्प्रयोजन एवेदं व्ययनीयमसंशयम् । योद्धव्यमनुरोधं च, विमुच्य सह पाण्डवैः ।। १२४ ।। परं कपिध्वजो यत्र, करे १ श्वावित्-भाषायां 'शाहुडी' । २ वसन्तम् । ३ ज्ञातिसंबन्धात् । ४ अनुसरणम् ।
For Personal & Private Use Only
Jain Education Intelational
www.jainelibrary.org