________________
युद्धम् ॥
पाण्डवरित्रम् ॥ पुर्ग:१३॥
॥२२५॥
126 कृपया चाप-शिन्जिनीमबरोपयन् । सैन्यद्वयेऽपि तत्काल-मवहारमकारयत् ।। ९६ ।। अथोत्तरवधात् खेद-मेदुराः पाण्डुसूनवः । धार्तराष्ट्रास्तु सानन्दाः, स्वं स्वं शिविरमन्वगुः ॥ ९७ ॥
विराटदयितां रात्रौ, पुत्रशोकार्तिविक्लयाम् । सुदेष्णां निर्यदुष्णाश्रृं, धर्मभूरित्यमान्वयन् ॥ ९८ ॥ कल्याणि! वीरकान्ताऽसि, शुचा कस्तव संस्तवः? । ननु वन्सेन तेनाद्य, वीरमूरसि निर्मिता ॥९९॥ तस्य पापीयसो नद्र-भूभर्तुरुदरादहम् । पृषकैश्चेन्न कर्षामि, तवाङ्गरुहमुत्तरम् ।। १०० ॥ तदाऽयं समरारम्भो, मा स्म भृन्मे फलेग्रहिः । कदाचिदपि मन्येथा, मा च मां सत्यसंगरम् ।। १०१॥ (युग्मम् ) एवमाश्वासिता धर्म-सूनुना माऽमुचन्छुचम् । “उदात्तप्रकृतीनां हि, शोकः स्तोकतरस्थितिः" ।। १०२ ॥
तथैव विशिखबात-नेपानीकान्यनेकशः। भीष्मो निघ्नन् घृणानिनः, सप्ताहान्यत्यवाहयत् ॥ १०३ ॥ उदारधीः सदाराय, धृतराष्ट्राय संजयः । नित्यमावेदयांचक्रे, निशि सांग्रामिकीः कथाः ॥१०४ ॥ धर्मात्मजोऽपि वात्सल्यानिजानां दक्षिणेमणाम् । निर्ममे स्वोर्मिकावाभिः, प्रत्यहं व्रणरोहणम् ॥१०५।। अष्टमेऽपि तथैवाहि, युध्यमाने पितामहे । भृशमारेभिरे योद्धं, पाण्डवानीकभृभुजः ॥१०६॥ निगङ्गे योऽगमन् पाणि-स्तत्रैव तमकीलयन् । यश्चक्रे शरसंधानं, चिच्छिदुस्तस्य चाङ्गुलीः ॥१०७ ॥ ज्यां करो योऽकृषत्तं तु, समं कर्णेन विव्यधुः । चक्षुरैक्षत यल्लक्ष्य-माकर्षस्तस्य तारकाम् ॥ १०८ ॥ स्थैर्यगर्व च मूर्छाया, मनागपि न से हिरे । किं पुनर्ऋमहे छेदे, कार्मुकस्य गुणस्य च ॥ १०९ ॥ एवं
१ युद्धस्थानादन्यस्थाने नयनम् । २ विराटपुत्रवधात् । ३ बाणैः । ४ निर्दयः ।
ans
॥२२५॥
For Personal Private Use Only